This page has not been fully proofread.

इन्द्रसहस्रे प्रथमं शतकम्
 
न पश्यति गिरां विलासमतुलं
न पश्यति महत्कुलं च विमलम् ।
कवाटरहिते गृहे प्रवहति
श्रियामधिपते कृपेन्द्र महति ॥ ८९ ॥
 
अहङकृतिमहाकवाटरहितं
मनो मम गृहं महेन्द्रविहितम् ।
अनन्तविभवा निरन्तरजया
 
न वा प्रवहताज्जवात्तव दया ॥ ९० ॥
 
अहङकृतिविकृत्ययो विरचितं
 
तमस्ततमहागुहास्थलगतम् ।
कवाटकमिदं हृदो विघटितं
तवास्त्वविहतं कृपाझरगतम् ॥ ९१ ॥
 
असावपि मनस्यपारयशसा
 
तनौ च परितस्ततेन महसा ।
इमं सुरपतेर्विशोध्य निपुणा
नरं भुविसुरं करोतु करुणा ॥ ९२ ॥
 
स्मरत्सु विकसत्स्वमोघचलितं
विलक्षणतमप्रभावकलितम् ।
इतोऽस्तु सुरराट्कृपाविलसितं
मनोऽभिलषितं ममास्तु फलितम् ॥ ९३ ॥
 
अतीव दृढतां वितीर्य मनसे
 
प्रकाशबहुलं बलं च वचसे ।
 
७१