This page has not been fully proofread.

७०
 
स्तोत्रग्रन्थमाला - तृतीयो भागः
 
तपस्विजनपा तवेश्वरकृपा
हृदा विकसिते सरत्विह ते ॥ ८३ ॥
 
तव स्मरणतो विशुद्धमनसि
प्रभो सुमनसां वितीर्णशिरसि ।
कृपारसझरी विपापसख ते
पतत्वयि मयि स्वभावविते ॥ ८४ ॥
 
चिरादविजयं सदापि सभयं
विकुण्ठितशयं विलोक्य विषयम् ।
विषण्णमिह मां वृषन्नरुणया
त्वमावृणु दिवो विभो करुणया ॥ ८५॥
 
सतां मतिमतां यदिन्द्रनयनं
यदुग्रविधया द्विषां प्रदमनम् ।
सदापि हृदये स्थितिर्यदचला
नरस्य सकला क्रिया यदमला ॥ ८६ ॥
 
अकुण्ठितगतिर्यदच्छधिषणा
समस्तविषयावगाहनगुणा ।
तदेतदखिलं महद्विलसितं
तवैव करुणाझरस्य फलितम् ॥ ८७ ॥
 
न पश्यति तपो न पश्यति गुणं
 
न पश्यति शुभक्रियां च निपुणम् ।
 
न पश्यति कृतं यथाविधि मखं
 
न पश्यति रमाविलासि च मुखम् ॥ ८८ ॥