This page has not been fully proofread.

इन्द्रसहस्रे प्रथमं शतकम्
 
ऋतज्ञकृतिभिः सदापि विनुता
रजोविरहितप्रजासु वितता ।
सुधामपि महः किरन्त्यजर ते
न तेषु विनता कृपा विजयते ॥ ७८॥
 
न कोऽपि मनसो गुणः सुजनपा
महेन्द्रमनसो झरी तव कृपा ।
भवन्तमयि तद्विभो रुचिनिधिं
भणन्ति विबुधाः कृपाजलनिधिम् ॥ ७९ ॥
 
अनुग्रहकृते सदाप्यभिमुखी
विभो तव विभा कृपानतसखी ।
रसार्द्रशिरसं सुपक्वमनसं
पुनाति विमदं नरं भुवि विदम् ॥ ८० ॥
 
अतीव सरला प्रकाशबहुला
धुताखिलमलाकृताजरकला ।
 
पदाहतभया तवाक्षरदया
 
विनम्रवदने सरत्विह जने ॥ ८१ ॥
 
गृणत्सदवनप्रकारनिपुणा
मुनिस्तुतगुणा महावितरणा ।
विचित्रकरणा तवेन्द्रकरुणा
स्तवेन मुखरे सरत्विह नरे ॥ ८२ ॥
 
अरुद्धगमना विशालनयना
विशुद्धपतना विचित्रचलना।
 
६९