This page has not been fully proofread.

६८
 
स्तोत्रग्रन्थमाला - तृतीयो भागः
 
अग्रे सितकरी मध्ये दिनकरः ।
मूले स दहनो दैवं मम वृषा ॥ ७१॥
 
वीरेडपि गुहावास्येव सततम् ।
पूर्णोऽपि विविधो दैवं मम वृषा ॥७२॥
 
हर्षप्रदमजो वर्षत्वकलुषम् ।
भव्यं मयि महो दिव्यं च स वृषा ॥ ७३ ॥
 
देयाद्दिविषदां धात्री पतिरलम् ।
स्वं देशमवितुं मह्यं मतिबलम् ॥ ७४ ॥
 
प्रीत्या वसुमती वृत्तानि मघवा ।
एतानि शृणुताद्देयादुत न वा ॥ ७५॥
 
चतुर्थः करुणास्तबकः
 
प्रदुष्टजनता मदोद्धतिहृते
 
विनम्रजनता गुणोन्नतिकृते ।
अशेषजगतो नृपाय वशिने
कृपाजलधये नमः कुलिशिने ॥ ७६ ॥
 
-
 
जागतः
 
व्रतैर्न विविधैर्न पूजनशतै-
र्न योगविधिभिर्न शुद्धचरितैः ।
न शक्रतपसा न यज्ञविधिना
 
नरस्य महिमा कृपां तव विना ॥७७॥