2023-11-19 19:22:18 by ambuda-bot
This page has not been fully proofread.
इन्द्रसहस्रे प्रथमं शतकम्
यस्यार्धमखिलं व्याप्तस्य भुवनम् ।
स प्राज्यविभवो दैवं मम वृषा ॥ ६२ ॥
क्रान्त्वा जगदिदं सर्वं स्थिरचरम् ।
एकः परिपचन् दैवं मम वृषा ॥ ६३ ॥
नित्यं च भुवनव्यापाररसिकः ।
नित्यं च विचरन् दैवं मम वृषा ॥ ६४ ॥
कर्ता च जगतां धर्ता दमयिता ।
कल्याणचरितो दैवं मम वृषा ॥ ६५ ॥
आत्मा च जनको राजा च जगताम् ।
इन्द्रो मुनिनुतो दैवं मम वृषा ॥ ६६॥
दीप्तो दिवि रविर्विद्युत्सुरपथे ।
वह्निः कुवलये दैवं मम वृषा ॥ ६७ ॥
तारः सकलविज्ज्योतिश्च विततम् ।
प्राणश्च परमो दैवं मम वृषा ॥ ६८ ॥
सूक्ष्मो विषयिणि स्थूलश्च विषये ।
सर्वत्र विततो दैवं मम वृषा ॥ ६९॥
साक्षी निरशनः पक्षी नृतनुषु ।
अक्षीणविभवो दैवं मम वृषा ॥ ७० ॥
६७
यस्यार्धमखिलं व्याप्तस्य भुवनम् ।
स प्राज्यविभवो दैवं मम वृषा ॥ ६२ ॥
क्रान्त्वा जगदिदं सर्वं स्थिरचरम् ।
एकः परिपचन् दैवं मम वृषा ॥ ६३ ॥
नित्यं च भुवनव्यापाररसिकः ।
नित्यं च विचरन् दैवं मम वृषा ॥ ६४ ॥
कर्ता च जगतां धर्ता दमयिता ।
कल्याणचरितो दैवं मम वृषा ॥ ६५ ॥
आत्मा च जनको राजा च जगताम् ।
इन्द्रो मुनिनुतो दैवं मम वृषा ॥ ६६॥
दीप्तो दिवि रविर्विद्युत्सुरपथे ।
वह्निः कुवलये दैवं मम वृषा ॥ ६७ ॥
तारः सकलविज्ज्योतिश्च विततम् ।
प्राणश्च परमो दैवं मम वृषा ॥ ६८ ॥
सूक्ष्मो विषयिणि स्थूलश्च विषये ।
सर्वत्र विततो दैवं मम वृषा ॥ ६९॥
साक्षी निरशनः पक्षी नृतनुषु ।
अक्षीणविभवो दैवं मम वृषा ॥ ७० ॥
६७