This page has not been fully proofread.

६६
 
स्तोत्रग्रन्थमाला - तृतीयो भागः
 
वन्दारुजनता मन्दारविटपी ।
बृन्दारकपतिर्दैवं मम वृषा ॥ ५३ ॥
 
सर्वोत्तमशची कान्तासहचरः।
विश्वादिरसिको दैवं मम वृषा ॥ ५४ ॥
 
वृद्धोपि युवकः सिद्धोऽपि रसिकः ।
लोकादिपुरुषो दैवं मम वृषा ॥ ५५ ॥
 
नित्योऽपि लसितो लीलार्थवपुषा ।
भीमोऽपि रुचिरो दैवं मम वृषा ॥ ५६ ॥
 
लोकारिदितिजप्रध्वंसनविधौ ।
निर्णिद्रकुलिशो दैवं मम वृषा ॥ ५७ ॥
 
सर्वस्य जगतो धाने च नयने ।
त्राणे च निरतो दैवं मम वृषा ॥ ५८ ॥
 
शास्त्राणि विदधल्लोकस्य चलने ।
नित्यांश्च नियमान् दैवं मम वृषा ॥ ५९ ॥
 
अन्तर्बहिरपि व्याप्तो जगदिदम् ।
पारे च विलसन् दैवं मम वृषा ॥ ६०॥
 
पारे स विगुणो लोकेऽत्र सगुणः ।
दुर्जेयमहिमा दैवं मम वृषा ॥ ६१ ॥