This page has been fully proofread once and needs a second look.

T
 
५० ]
 
महाकविवाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क १३ व्याख्या
 
विनापि प्रयत्नेनैव वा नाक्षिप्येव महिषस्यास्थ्नां भङ्गो व्यधायि । तु पुनः

अन्यच्च, क्रोधात् पादपद्मं नोद्धृतं अर्थान्महिषशिरसः, तु पुनः अमृतभुजां

देवानां अमृतं भुञ्जते इत्यमृतभुजः । अतः हृन्मध्यात् महदिति अनन्य निरसनीयं

शल्यं महिषलक्षणं उद्धृतं, अमर्थः । क्रोधात् महिषशिरसि न्यस्तं पादं अनुद्धृत्यैव

देवशल्यमुद्धृतं पादप्रहारमात्रेणैव देव्या[वा] निःशल्या बभूवुरित्यर्थ:थः । अपरं च,
तत्स

तत्सन्
नूपुरं धीरतया अचलनत्त्वेन वाचालं सशिञ्जितं नाऽजनि न जनितं, नूपुर
-
शब्दस्य महाकविप्रयोग (202a) त्त्वान्नपुंसकता न विचारणीया । तु पुनः महिषवधा-

नन्तरं जगत् जयं शंसत् ग्रजनि, 'जय जये' तिघोषपरं जातं, नूपुरमजनीति विण्,

भावकर्म्मणोरिति कर्मणि विण्, जगदजनीति । दीपजनेत्यादिना कर्त्तरि विणिति

मन्तव्यम्; अयमभिसंधि : यावता नूपुरमपि सशब्दं नाभूत् तावदेव हतेऽरौ जगत्

स्तोत्रकृज्जातमित्यर्थः । कर्म्मणि विण् । पक्षे भवान्या तच्छिरसि तथा श्लक्ष्णतया

सलीलं पादो न्यधायि यावन्नूपुरोऽपि सशब्दो न जातः हेलयैवाऽरिर्हतः ; विनापि

कारणं कार्योत्पत्तिरिति विभावना । 'क्लेशेन कार्यकरणं समाधिर्वा विशेषणैर्यत्सा-
कू

कु
तैरिति परिकरो' वा यथासंभवमलङ्कारयोजना । किं कुर्व्वन्त्या हरन्त्या मुष्णन्त्या

कान् असून् प्राणान्, कस्य सुरारे: महिषस्य, केन पार्ष्णेरंशेन पादतलपाश्चात्य-

भागेन, क्व समरभुवि सङ्ग्रामभूमौ । अत्र भ्रूभङ्गे वक्तव्ये यल्लतापदोपादानं

तस्यायमभिप्रायः, देवी महिषस्य प्राणान् मुष्णाति चोरयति, सहसैव हत

इति सोऽपि न जानाति स्मेति हरणं, यश्च यस्य कस्यचित् यत्किञ्चन मुष्णाति

स सर्वोऽपि आत्मप्राकट्यशङ्कया लतादेर्भङ्गं न करोति इति स्वभावः । अथ महिष-

स्याऽसवश्चापहृताः ततः कारणाभावे कार्याऽनुदयात् । लताभङ्गकारणप्राणवत्ताभा-

वात्, तत्कार्यभङ्गानुत्पत्तिः । अथवा, अयत्नेन महिषे हते शृङ्गारचेष्टा लोलीलादिसद्-

भावात् । भ्रूलतोपादानं अत्र पूर्वस्मिन् व्याख्याने भगवत्या माहात्म्यवर्णनमपरि-

पुष्टमिति भङ्ग्यन्तरेण व्याक्रियते, यया केवलं भ्रू लताया एव भङ्गो नाकारि किन्तु

अनास्थं यथा स्यात्तथा महिषस्याऽपि भङ्गः कृतः, किमुक्तं भवति, भ्रू भङ्गसम-

कालमेवाऽस्थ्नां भङ्गो जातः नास्थिभङ्गे प्रयत्नान्तरमभूदित्यर्थः । भ्रूभङ्गं दृष्ट्वा

एव महिषस्य देहो विशकलित इति । तु पुनः, यया क्रोधान्महिषवधार्थं केवलं

पादपद्मं नोद्धृतं महिषशिरसि न्यस्तो यावता चरणो नोद्दधारि किंतु अमृतभुजां

अन्तःशल्यमपि उद्धृ तं, अमृतभुजामिति कोऽर्थ:थः अमरणधर्मता; अनु च, 'दुराधर्षो

रिपुश्चेति शल्यम्', अनु च, महिषवधार्थं देव्या पादे उत्क्षिप्ते एव हतोऽस्मद्रिपुरिति

निःशल्या अभूवन् । अनु च, यया केवलं नूपुरमेव वाचालं नोऽजनि किकिं च जगदपि

जयं शंसद्यातं, चरणोत्क्षेपणसमये नूपुरे एव शब्दायिते जगत् 'जय जय देवि' इति

मङ्गलघोषपरमभूदित्यर्थः । अयं क्रमः, यः कञ्चन हन्तुतुं उपक्रमं करोति स पूर्वं
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy