This page has not been fully proofread.

मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
पद्याङ्क १२-१३ व्याख्या ]
 
[ ४६
 
पादस्य कर्म्मणि प्रधानस्यैव फलभावत्वात् वामपादस्यैवोपचरणं युक्तिमिति दर्श-
यितुम् । अपि: पूर्व्वोक्तसमुच्चयार्थः, किंविशिष्टस्याऽस्य दलिताद्रीन्द्र सारद्विषः
अद्रोगामिन्द्रोऽद्रीन्द्रो हिमालयः तस्य सार इव सारो ग्रस्य, उपमानसमासः, स चासौ
द्विट् च स तथा दलिताऽद्रीन्द्रसारद्विट् येन स तस्य एतदुक्तं भवति । येनाचलप्रायो
रिपुर्व्यापादितः तस्य विजयाकरतलस्पर्श किया निति । अथ च नाहं संवाहनोद्युक्ता
किन्तु कृताञ्जलिर्नति प्रातनोमीति विजयोदितमाशङ्क्याह-ज्ञानं तर्हि भक्तिपरत्त्वं
त्वमपि कि एतस्मात्त्रस्यसि एवेति वितर्के, यतोऽद्य अमुना कदनेन त्रासेन सर्व्व:
सकलोऽपि लोक: एनं प्रणमति नमस्यति त्वं अपि तदन्तर्गतासीति नतियुक्तेति
उपहासार्थः। कदनेन त्रासेनेत्युभयत्र हेतो तृतीया । कदनहेतुकं त्रासनिमित्तं नति
सर्व्वः करोतीति वाक्यार्थः । रसवद्र पकव्याजोक्त्या विशेषोऽलङ्कारः ॥१२॥
 
"
 
सं० व्या० - १२. अम्बिकायाः गौर्याः पादः क्षतारि: वो युष्मान् अव्यात् रक्षतु,
क्षतो अनि इति विग्रहः, किंविशिष्ट रहसि एकान्ते ग्रन्यं विनयप्रकारं पश्यता
त्र्यम्बकेन त्रिनयेन चुम्बित:, कि कुर्वता विहसता प्रहसता एवं अमुना प्रकारेण किं
कुर्वता इत्यर्थः कथमिति तदुच्यते रवताक्ते इत्यादि हे विजये ! सखि न विराजति
न शोभते प्रमुष्मिन् चरणे किम्भूते विजयिनि विजयशीले रक्ताक्ते रक्तेन प्रत्याक्ते
का न विराजति प्रलक्तकश्रीः शोभा हस्ताग्रेण सम्मर्द्दनं तदपि हासो हास्यं
प्रस्य ह्रियमाणेsssssssन दलिताद्रीन्द्रसारद्विषः दलितोद्रोन्द्रसार: द्विट्
महिषो येन विनयं साधयतीत्याह अमुना कदनेन महिषवधलक्षणेन कदनेन कृतेन
यस्त्रासश्चमत्कारः तेनैवाद्याधुना सर्व: प्रणमतीति ॥ १२॥
 
इदानीं महिषे व्यापादिते स्वास्थ्यमिताया भगवत्याः शक्रादीनां प्राप्तकालायाः
स्तुतेः प्रस्ताव दर्शयन्नाह -
 
भङ्गो न भ्रू लतायास्तुलितबलतयाऽनास्थमस्थ्नां तु चको
 
न क्रोधात् पादपद्म' महदमृतभुजामुद्धृतं शल्य मन्तः ।
वाचालं नूपुरं नो जगदजनि जयं शंसदंशेन पार्ष्णे-
मुष्णन्त्याऽसून् सुरारे: समरभुवि यया पार्व्वती पातु सा वः ॥१३॥
कुं०व०-सा पार्व्वती वो युष्मान् पातु । सा का यया भ्रूलताया भङ्गो न चक्रे
म कृतः नाकारि । भ्रू रेव लता भ्रूलता तस्याः, पुनः अस्थनां महिपकीकसानां भङ्गः
कृतः । कथं यथा स्यात् तुलितबलतया परिच्छिन्नबलत्त्वेन अनास्थं अस्थारहितं
यथा स्यात्, श्रयत्नमिति यावत्, अनाक्षेपं वा संभावनारहितं वा । महिषा स्थिभङ्गे
कस्यचिदपि संभावना एव मा भूत्, इति एतदुक्तं भवति, कोपचिह्नं भ्रूभङ्गं
 
·
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy