This page has not been fully proofread.

पद्याङ्क ११ व्याख्या ]
 
मेदपाटेश्वर कुम्भकर्ण-कृत-वृत्ति समेतम्
 
[ ४७
 
र्भवतीति । तथा च पाणिनिराचार्य: 'अपवर्गे तृतीया' अपवर्गे श्रवसाने तृतीयैव
प्राप्नोति । इदमेव सूत्रं श्रीहर्षमिश्रैरन्यथा व्याकृतम्, 'उभयी प्रकृतिः का मे
सज्जेदिति मुनेर्मनः' । 'प्रपवर्गे तृतीये'ति भणतः पाणिनेरपि एवं या काचन तृतीया
तैर्दृष्टा सा भवतु, वयं तु प्रकृत मेवाऽनुसरामः । केषां ज्योत्स्नयेत्यपेक्षायां विशेषण-
द्वारेणाह– स्वांशुमय्या स्वकीयाश्च तेंशवश्च स्वांशवः तन्मयी तया स्वांशुमय्या,
अत्र प्राचुर्य्ये मयट्, अंशुप्राचुर्यवत्या नखज्योत्स्नयंत्यर्थ, अत्र चेतनानां नखानां
हासासंभवात् । हृतमहिपरुधिरक्षालनोत्तजनोज्वलोभूतनख किरणव्याजेन हास-
साधर्म्याच्चेतनधर्म्म उपचर्यते । कथम्भूतैर्नख चन्द्रकान्तः इति वक्ष्यमाणप्रकारेण
उत्पन्नाभिमानैः 'उत्पन्नोऽभिमानो गर्व्वा येषां ते तथा तेः । इतीति किं, सव्या-
जैणराज: एणानां राजा एणराजः, व्याजेन एणराजो व्याजैणराज: कपटनृसिंहः ।
अत्र व्याजैणराज इति शब्दमहिम्ना व्याजसिंह एव प्रतोयते, अर्थाच्च नृसिंहो
जायते । पाणिजैरिति शब्दसन्निधेश्च शब्दार्थस्यापरिच्छेदे सान्निध्यादीनां विशेष-
स्मृतिहेतुत्वाऽभ्युपगमात् नृसिंह इति व्याख्यायते । अथ जनो प्रादुर्भाव 'वेजननप्रसव-
विकारोत्पत्तिषु ड-प्रत्ययांतः । विशिष्टज्ञानवान् श्रा सामस्त्येन जायते इति [19a]
व्याजो मनुष्यः, प्रज क्षेपणे । वैः कैतवे विशिष्टं आ सामस्त्येन जानाति । अथ
भक्तानां दुरितानि क्षिपतीति व्याजो नरः । नरश्चासौ सिंहश्च व्याजसिंहः, विः
कपटार्थं वक्तीति कपटनृसिंह इति शब्दः संपद्यते । अतः स व्याजंणराजो माया-
नरसिंहः । प्रागित्याद्यन्वयः प्राक् पूर्व्वं सुरारे: सुराणां रिः सुरारिः तस्य हिरण्य-
कशिपोर्वक्षो हृदयं दशभिः पाणिजै: पाणेर्जाता: पाणिजा: अभिनत् विदारयामास
अत्रायमभिसन्धिः । स इति परोक्षार्थसूचकतदो दर्शनात् नृसिंहेन दैत्यो व्यापादितः
स्मयंते परं न दृश्यते । तु पुनः वयं एते साम्प्रतमेव रिपुमस्तं नयामः । किं-
विशिष्टा वयं, युवतिचरणजाः, अत्रापि च ते पुंपाणिजाः, अत्र पुंनार्यो: पाणि-
पादयोश्च सिंहशशकयोश्च बले विशेषो गर्वकारणं, तत्रापि च ते दश वयं तु
पञ्चैव । एव शब्दो द्वितीयचरणनखव्यावृत्त्यर्थः वामपादेनंव हननात्, इति त्रिभि-
र्हेतुभिरुत्पन्नाभिमानैरिति वाक्यार्थः । अत्र उपमारूपकश्लेषाऽलङ्काराः ॥११॥
 
सं.व्या. – ११. शिवा गोरी वो युष्माकं शान्त्यै शान्तये अस्तु भवतु, यस्याः पादे
अधिकरणभूते नखैहरिविष्णुः हसित इव, कया ज्योत्स्नया किंभूतया स्वांशुमय्या
स्वांशवः कृता यासां तया, क्व सति हतारौ हतश्चासौ अरिश्च स हतारिः तस्मिन् हतारो
व्यापादितमहिषसंज्ञशत्रो, किमिव स्वैर्नखं रिति एवमुत्पन्नाभिमानै रिति वक्षो व्याजंण-
राज इत्यादि, व्याजैणराजशब्देन ना मृगराजो अभिनत् भिन्नवान्, वक्षः उर
सुरारेः हिरण्यकशिपोः, प्राक् पूर्वं दशसिंः पणिजैः एते वयं पुनः पदैव । पञ्च॑व]
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy