2023-03-13 13:34:57 by ambuda-bot
This page has not been fully proofread.
४६ ]
महाकविबाण-विरचितं चण्डीशतकम् [ पद्याङ्क ११ व्याख्या
प्रधाने कार्यप्रत्यय' इति न्यायाच्च विधेयत्त्वे पृथक्त्वेन वा निर्देशे प्राप्ते हरिशब्दे
श्लेषाभित्सया सिंहस्य बुद्धच पारोहात् तदपेक्षया निकृष्टत्वेन शशित्वारोपात्
समर्थसाध्येऽसमर्थसाध्यत्वात् आपादनमुपहासविषयौचित्यमादधाति, इति कृत्वा
कविः स्वातंत्र्यमापन्नो यद् इच्छति करोति तत् प्रमाणयन् नखानां प्राधान्यं समा-
सेन अस्तंगमितवान्नित्यलमतिविस्तरेण । अत एव हसितहरिरित्यत्रापि इव शब्दो-
पादानं कवेनिरर्गलतामेव द्योतयतीति पुनरुक्तमेव, हसित इत्यस्य मुख्यार्थबाधे
सति तत्सदृशार्थप्रतीते: सामर्थ्य सिद्धत्वोपगमात् वाच्यो ह्यर्थो न तथा स्वदते
यथा स एव प्रतीयमानः । तथा च कविरहस्यम् -
'वाच्यात्प्रतीयमानोऽर्थस्तद्विदां स्वदतेऽधिकम्
रूपकादिरतः श्रेयान् अलङ्कारेषु नोपमा' । इति
एकंवालङ्क तिर्यत्र शब्दत्वे चार्थभेदतः ।
द्विरुच्यते तां मन्यन्ते पुनरुक्तिमतिस्फुटम् ॥
इत्यादि बहुवक्तव्ये सत्यपि नोच्यतेऽप्रस्तुतत्वादिति । नखशशिमणिभिरिति मन्त्र
कर्त्तरि तृतीया 'कर्त्तृ करणयोस्तृतीयेति' सूत्रेण । कया ज्योत्स्नया ज्यो[18b]
त्स्नयेत्यत्र कत्तू करणयोस्तृतीयंत्यनेन सूत्रेण करणे तृतीया । 'भिन्नः शरेण रामेण
रावणो लोकरावणः' इत्युदाहरणं दृष्टांतदाट तिकयोरभेदो यथा - नखशशि-
मणिभिः कर्त्तृभिः ज्योत्स्नया करणभूतया हरि: कर्म्मतापन्नो हसित इति क्रिया-
स्थानीयं पदं, तथा रामेण कर्त्रा शरेण करणभूतेन रावण: कर्म्मतापन्नो भिन्न इति
क्रियास्थानीयं पदम् । अत्र केचन पण्डितम्मन्या देवानां प्रिया नखशशिमणिभिः श्रन्त्र
तृतीयां सम्बन्धषष्ठ्यर्थे ब्रुवाणा: प्रष्टव्याः, ग्रहो केयं तृतीया नाम या षष्ठीं
बाधितुमुत्सहते 'षष्ठी शेषे' इति पाणिनीयमतपर्यालोचनया सर्वा विभक्तीर्बाधित्वा
षष्ठी प्राप्नोति । सर्व्वाण्यपि कारकाणि सम्बन्धार्थमन्तरभा[वी ] न्येव भवन्ति ।
'एकशतं हि षष्ठ्यर्था' इति भाष्यकारोप्याह । अतः सर्व्वासां प्रर्थे षष्ठी प्राप्नोति,
न पुनः षष्ठीं बाधित्वा तदर्थे काचिदिति कृतमनेन वैयाकरणोपालम्भेन । अत्र
तदुचित मेवान्यत् किंचिद्विचार्यते साधु ज्ञातं तत् केयं तृतीया नामेति 'षडूमि-
रहितः शिव' इत्यत्र षडूयोऽशनाद्या विद्यन्ते तर्हि एवं व्याकरणकत्तु महलक्षणां
ऊर्म्यवस्थां बाधित्वा विद्यांतश्चाऽविद्यांतश्च तृतीया काचन विभक्तिर्भविष्यति ।
विद्यया ज्ञानेनाविद्ययाऽज्ञानेन कर्मलक्षणेन च तेषामयं व्यामोहो न याति । तेषां
व्यामोहो यया याति सान्यैव काचन, एतद् द्वयादन्या ज्ञानाज्ञानव्यतिरिक्ता
तृतीयाविभक्तिर्भविष्यतीति साधुदर्शनेभ्यस्तेभ्यो नमोऽस्तु । अथ किमर्थमसत्
परिकल्प्यते, सत्येव दानभोगाभ्यां अन्या तृतीया विभक्तिः तस्य तृतीया गति-
T
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy