This page has been fully proofread once and needs a second look.

पद्याङ्क ११ व्याख्या ]
 
मेदपाटेश्वर कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
[ ४५
 
पतनापातपीतासुरासीत् धैर्येणामुक्तं लीलायाः समुचितः योग्यं यदात्मनः पतनं

पातस्तस्यापाते प्रारम्भंभे एव पीता असवो येन छलेन महितनुर्यस्येति विग्रहः,

देवीपक्षे वामो दक्षिणेतर उच्यत इति ॥ १०॥
 

 
साम्प्रतं देवीचिकीपिर्षितमन्तरेण नखानामेव तद्वधकर्तृत्वमुपपादयति-
-
 
वक्षो व्याजैणराजः स दशभिरभिनत् पाणिजैः प्राक् सुरारे:
रेः
पञ्चैवास्तं नयामो युवतिचरणजाः शत्रुमेते वयं तु ।

इत्युत्पन्नाभिमानैर्नखशशिम णिभिर्ज्योत्स्नया'[^१] स्वांशुमय्या

यस्याः पादे हतारौ हसित इव हरिः सास्तु शान्त्यै शिवा वः[^२] ११॥
 
L
 

 
कुं०वृ०--सा शिवा वः शांत्यै सर्व्वावोपद्रवना (18a) शाय भूयात् । सा का, यस्याः

नखशशिमणिभिर्हरिः श्रीनृसिंहो हसित इव । यद्यपि 'हसितविडंबितवर्जितादयः

शब्दा: कविसमये उपमावाचकाः' इति कृत्वा हसित-ग्रहणेनैव उपमायां सिद्धायां

इव- ग्रहणं प्रत्युत उपमेयस्यैवाधिक्यद्योतनार्थं कविना पृथक् कृतं, इति प्रस्ति
अस्ति
स्थितिः । अप्रसिद्धमुपमेयं प्रसिद्धमुपमानं अत्र तु तद्विपर्ययः । अथवाऽव्यया-

नामनेकार्थत्वात् इव-शब्द एवकारार्थः, हसित एव न तत्सदृशो बभूवेत्यर्थः, इति

पौनरुक्त्यपरिहारः । क्व सति, पादेऽर्थात् देव्याश्चरणे हतारीरौ सति, हतो व्यापा-

दितोऽरिर्येन स तथा । शशिनो मणयः शशिमणयः चंद्रकांताः नखा: शशिमणय इव

नखशशिमणयः, उपमितं व्याघ्राद्यैः सामान्यप्रयोगे इति समासः, तैः नखशशि-

मणिभिः । अत्र यद्यपि लक्षणमस्तीत्येतावतैव लक्षणानुगतः प्रयोगो रसभंगे न
'

कर्त्तव्यः, काव्यस्य रसात्मकत्वात्, रसस्य च शब्दार्थोथौचित्येनैव प्रयोगपरिपोष-

दर्शनात् । 'प्रसिद्धौचित्यबंधस्तु रसस्यौपनिषत् परेति च वचनात् । नखानां च

प्राधान्यं तत्त्वेन च विधीयमानत्वं; अत्र च यथा 'सूर्याचन्द्रमसौ यस्य मातामह-

पितामहोहौ' तथा नखान् अनूद्य शशिमणित्वं विधीयते । विभक्त्यन्वयव्यतिरेकाभि-

धायिनी हि विशेषणानां विधेयतावगतिः तत एव च एषां विशेष्ये प्रमाणांतरसिद्धो-

त्कर्षापकर्षाऽभिधायिनां शाब्दे गुणभावेऽप्यार्थं प्राधान्यं विशेष्याणां च शाब्दे प्राधान्ये-

ऽप्यार्थीथो गुणभावोऽनुनूद्यमानत्वादित्युक्तम् । अत्र च पृथग् विभक्त्यभावान्नोत्कर्षाव-

गतिरिति न तन्निबन्धना रसाभिव्यक्तिरिति कृत्वा नखानां 'प्रधानाऽप्रधानयोः
 

 
-----------------
[^
.] ज० इत्युत्पन्नाभिमानं नैगतिरुचिरन खै यत्स्नया ।
 
र्ज्योत्स्नया ।
[^
.] का० सास्तु काली श्रिये वः ।
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy