This page has been fully proofread once and needs a second look.

विवशे तदाकुलितचित्तत्वादविधेयेन्द्रियवर्गे, अतो रक्षाऽसमर्थे इति तर्हि धाता
तिष्ठतु । इन्द्रादयः स्वस्वाधिकारे जाग्रति तेष्वयं त्रैलोक्यभारं निधाय सुखी वर्त्तते
कृतकृत्यत्वात् । न पुन: केषु कथं सत्सु, द्रविणपतिपयःपालकालानलेषु द्रवत्सु
पलायमानेषु सत्सु, किं केवलेषु, नेत्याह इन्द्राद्येषु इन्द्र आद्यो येषां ते इन्द्राद्याः
पलायमानेषु इन्द्रोऽग्रेसरो बभूव इत्यर्थः । द्रविणस्य पतिर्द्रविणपतिः धनदः, पयांसि
पालयतीति पयःपालो वरुणः, ततो द्वंद्वः द्रवि[17b]णपतिश्च पयःपालश्च कालश्च
अनलश्च ते तथा तेषु एवं सति त एव लोकरक्षायै प्रवृत्तास्त्वां पान्त्विति
वाक्यार्थः । अत्र वर्णानुप्रासः शब्दचित्रं 'उपमानाद्यदन्यस्य व्यतिरेकः स एव स’
इति व्यतिरेको वाच्यालङ्कार इत्यादि विस्तरभीत्या न प्रपञ्च्यते ॥
 
सं० व्या०--९. अपरे अन्ये पञ्च लोकपालाः त्वां भवन्तं पांतु रक्षन्तु कस्या-
श्चण्डिकायाः, केन चरणनखनिभेन चरणस्य ये नखास्तेषां निभेन व्याजेन, किं
कृतवन्तः त्रातवन्तो जगन्ति त्रीनपि लोकान् अत एव लोकपाला इत्युक्तम् । किं कृत्वा
त्रातवन्तः पिष्ट्वा संचूर्ण्य, कं महिषं महिषरूपं दानवं अतिरुषं अतिशयकोपं
स्पर्शेनैव न तु ताडनादिना, किल महतां स्पर्शोऽपि•••••••••प्रभावेन पिनष्टि । ननु
ब्रह्मादयः क्व गताः ये देवोपादनखाः महिषं पिष्ट्वा लोकपालाः संवृत्ताः इति,
तदुच्यते प्रविशति विवशे 'धातरि ध्यानतन्द्रीमिति' धातरि ब्रह्मणि प्रविशति सति
कां ध्यानतन्द्रीं, किंभूते विवशे विह्वले जगदातङ्कवशेनेत्यर्थः, अत एवोक्तं त्रैलोक्या-
तङ्कशान्त्यै इति त्रैलोक्यातङ्कं आकृतः [आतंकः] तस्य शान्त्यै शान्तये, इन्द्र आद्यो
येषां ते इन्द्राद्याः तेषु इन्द्राद्येषु द्रवत्सु सङग्रामान्निवर्तमानेषु सत्सु । अथ तेषु इत्याह
द्रविणपतिपयःपालकालानलेषु धनदवरुणयमाग्निष्वित्याह ॥९॥
 
इदानीं भगवत्याश्चरणस्य गुरुत्वातिशयं दर्शयन्नाह--
 
प्रालेयोत्पीडदीव्नां[^१] नखरजनिकृतामातपेनातिपाण्डुः
पार्व्वत्याः पातु युष्मान् पितुरिव तुलिताद्रीन्द्रसारः स पादः ।
योऽधैर्यान्मुक्तलीलासमुचितपतनापातपीतासुरासी-[^२]
न्नो देव्या एव वामच्छलमहिषतनोर्नाकलोकद्विषोऽपि ॥१०॥
 
कुं० वृ०--स पार्व्वत्याः पादो युष्मान् पातु अवतु रक्षतु । किंविशिष्टः
नखरजनिकृतां आतपेन नखचन्द्राणां ज्योत्स्नयातिपाण्डुः अतिगौरः, रजनिं रात्रिं
 
-------------------
[^१] का० प्रालेयोत्पीडपीव्नां; ज० प्रायोत्पीडदीप्तां(दीव्यन्) ।
[^२] का० यो धैर्यान्मुक्तलीला०; ज० यो धैर्यामुक्तलीला० ।