This page has been fully proofread once and needs a second look.

यस्तु प्रयुङ्ते व कुशलो विशेषे,
शब्दान् यथावद्व्यवहारकाले ।
सोऽनन्तमाप्नोति जयं परत्र,
वाग्योगविद्रुष्यति चापशब्दैः ॥ इति,
 
अलमप्रस्तुतांभिधानेनेत्युपरम्यते । तस्मादनेकार्थाभिधायिशब्दप्रयोगे मुधा बुधाः
खिद्यन्ते । ततो--
 
यावद्भिरर्थै: संबंधः प्राक्शब्दस्यावधारितः ।
तावत् स्वल्पनिराशंसः श्रुतः सन् कुरुते मतिम् ॥
 
इत्यादि, पूर्वपक्षे निक्षिप्य--
 
यद्यप्यर्थेषु सर्व्वेषु प्राक्शब्द: कुरुते मतिम् ।
तथापि तद्विवक्षार्थं विशे[17a]षणमपेक्षते ॥
तच्चैतद्वदनकार्थं मुख्योऽर्थः कोऽवतिष्ठताम् ।
यस्तत्र प्राकरणिकः पौर्वापर्यगतिः कुतः ॥
 
इत्यादिना--
 
तस्मादनेकार्थत्वेऽपि विशेषणविशेष्ययोः ।
अर्थान्तरप्रतीत्यर्थं वाच्यमेव निबन्धनम् ॥
 
इति उपसंहारार्थः । अत्र श्लेषालंकारः, अत्र च नञ्समासाऽसमर्थत्वदोषयोः परि-
जिहीर्षया चिरकालगलितपूर्वपरिपाठोपरि जामातृशोधनं विमुच्य बाणकृतमेव
पाठमादृत्य 'प्रास्याऽश्वान् शष्पलोभादिव हरितहरेर्न प्रसोढाऽनलोष्मा’, इत्ययमेव
पाठो भणितुं न्याय्य इति शिवा [शिवम्] ॥८॥
 
सं० व्या०--८. सा देवी वो युष्माकं मुदे हर्षाय अस्तु भवतु, यस्याः पादं
आप्त्वा ह्रदमिव प्राप्य महिषः स्वस्थोऽभूत्, किमुक्तं भवति यस्य ऊष्मणोपचितस्य
कृष्णपङ्कजलप्रत्युपगमेऽपि न स्वस्थता जाता, स हृदवच्चरणं प्राप्याथ स्वस्थो
भूतः, वस्त्वर्थपक्षे छलपक्षे स्वस्थो निरातुरः, किल महिषादे: हृदप्राप्त्यां ऊष्मोपगते
सति स्वस्थतेति, यः कीदृशो महिषः हरितो हरयो यस्य शष्पलोभादिव हरितबाल-
तृणगाद्धर्यादिव रवेर्ग्रस्ताश्वः कवलीकृततुरग: महिषः किल ग्रसन्बुद्ध्या शष्पेषु
लुभ्यतीति परमार्थ: न तु शष्पलोभादिति । पुनरपि किंभूतो यः अप्रसोढानलोष्मा
अप्रसोढः अनलस्य ऊष्मा ऊष्मत्त्वं येन सः तथोक्तः देवानां हि पक्षतया ऊष्माणं
न सोढवानिति वस्त्वर्थः, कविभावस्तु अश्वानां ग्रसनेन भानुः स न विद्यते पूर्व-
मेवोपतप्तः स्थितः ततोऽनलस्योष्माणं न सोढवान्, अत एव शब्दच्छलेनैव कवि: कृष्णं
पङ्कं यथेच्छन् वरुणमुपागतः इत्युक्तवान्, स्थाणौ शङ्करे छलपक्षेन स्थाणौ खुंटके