This page has not been fully proofread.

पद्या ८ व्याख्या ]
 
यस्तु प्रयुङ्क्त कुशलो विशेषे,
 
शब्दान् यथावद्व्यवहारकाले ।
सोऽनन्तमाप्नोति जयं परत्र,
 
मेवपाटेश्वर-कुम्भकर्ण-कृत-वृत्ति समेतम्
 
वाग्योगविद्रुध्यति चापशब्दैः ॥ इति,
 
अलमप्रस्तुताभिधानेनेत्युपरम्यते । तस्मादनेकार्थाभिधायिशब्दप्रयोगे मुधा बुधाः
खिद्यन्ते । ततो-
-
 
इत्यादिना-
यावद्भिरथै: संबंधः प्राक्शब्दस्यावधारितः ।
तावत् स्वल्पनिराशंसः श्रुतः सन् कुरुते मतिम् ॥
 
इत्यादि, पूर्वपक्षे निक्षिप्य-
1
 
[ ४१
 
यद्यप्यर्थेषु सर्व्वेषु प्राक्शब्द: कुरुते मतिम् ।
तथापि तद्विवक्षार्थं विशे[17 षणमपेक्षते ॥
तच्चैतद्वदनेकार्थं मुख्योऽर्थः कोऽवतिष्ठताम् ।
यस्तत्र प्राकरणिकः पौर्वापर्यगतिः कुतः ॥
 
तस्मादनेकार्थत्वेऽपि विशेषणविशेष्ययोः ।
अर्थान्तरप्रतीत्यर्थं वाच्यमेव निबन्धनम् ॥
इति उपसंहारार्थ: । अत्र श्लेषालंकारः, पत्र च नञ समासाऽसमर्थत्वदोषयोः परि-
जिहीर्षया चिरकालगलितपूर्वपरिपाठोपरि जामातृशोधनं विमुच्य बाणकृतमेव
पाठमाहत्य 'प्रास्याऽश्वान् शष्पलोभादिव हरितहरेर्न प्रसोढाउनलोष्मा', इत्ययमेव
पाठो भणितु न्याय्य इति शिवा [शिवम्] ॥८॥
 
सं० व्या० - ८. सा देवी वो युष्माकं मुदे हर्षाय प्रस्तु भवतु, यस्याः पादं
आप्त्वो ह्रदमिव प्राप्य महिषः स्वस्थोऽभूत्, किमुक्त भवति यस्य ऊष्मणोपचितस्य
कृष्णपङ्कजलप्रत्युपगमेऽपि न स्वस्थता जाता, स ह्रदवच्चरणं प्राप्याथ स्वस्थो
भूतः, वस्त्वर्थपक्षे छलपक्षे स्वस्थो निरातुरः, किल महिषादेः ह्रदप्राप्त्यां ऊष्मोपगते
सति स्वस्थतेति, यः कीदृशो महिषः हरितो हरयो यस्य शष्पलोभादिव हरितबाल-
तृणगाद्धर्यादिव रवग्रस्तावः कवलीकृततुरग: महिषः किल ग्रसन्बुद्धया शष्पेषु
लुभ्यतीति परमार्थ: न तु शष्पलोभादिति । पुनरपि किंभूतो यः अप्रसोढानलोष्मा
अप्रसोढः अनलस्य ऊष्मा ऊष्मत्त्वं येन सः तथोक्तः देवानां हि पक्षतया अग्रे ऊष्माणं
न सोढवानिति वस्त्वर्थः, कविभावस्तु अश्वानां ग्रसनेन भानुः स न विद्यते पूर्व-
मेवोपतप्तः स्थितः ततोग्नलस्योष्माणं न सोढवान्, अत एव शब्दच्छलेनैव कविः कृष्णं
पकं यथेच्छन् वरुणमुपागतः इत्युक्तवान्, स्थाणी शङ्करे छलपक्षेन स्थाणी खुटके
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy