This page has been fully proofread once and needs a second look.

४० ]
 
महाकविबाण-विरचितं चण्डीशतकम्
 
। पद्याङ्क ८ व्याख्या
 
महिषपदं अतदर्थमपि तद्व्यवहारारोपात् तदर्थवद्भवतीत्यर्थः । न पुनः प्राकृत
-
महिषार्थोऽपि सामग्रीविकलो हि तदर्थता चार्थभेदेऽपि शब्दैक्यपक्षाश्रयेण सामग्री-

वशादर्थान्तरप्रतीतिसद्भावे अवाचकस्याप्यसाधुशव्ब्दस्य सामग्रीवशात् वाचकत्व-

मनुमीयते । प्रतः सामग्रीसद्भावान्वयव्य[16b]तिरेकानुविधायिनीयमर्थान्तर-

प्रतीतिरिति निश्चयो जायते ।
 

 
तथा च हरिवार्तिकम्
-
 
T
 
--
 
असाधुरनुमानेन वाचक: कैश्चिदिष्यते ।

वाचकत्वाविशेषेऽपि नियमः पापपुण्ययोः ॥
 

 
इति, केषांचिन्मते प्रसाधुॠतकशब्द: साधुर्ऋतकशब्दः साधुं ऋतकशब्दं स्मारयति । स्मृत्यारूढश्च

ऋतकशब्द एवार्थं बोधयतीति द्योत्यते न च साधुवैलक्षण्यमात्रेण अधर्मजनकत्वेन

वा तस्य साधोरपशब्दव्यवहारविषयत्वं वक्तुं युक्तम् । यतः शब्द इति शब्दनं,

शब्द इति करणव्युत्पत्त्या शब्द्यतेऽभिधीयतेऽनेनेति करणे घन्तं रूपम् । तस्य बोध-

कस्य शब्दस्य प्रकृतिप्रत्ययादिविभागपरिकल्पनया लक्षणानुगतत्वेन लक्षण-

कृतावयव विकल्पनारहितत्वेन विगुणसामग्रीकत्वेन अर्थाप्रतिपादकत्वेन च साधु-
प्र

साधु-अपशब्दरूपत्वेन त्रैविध्यं, तत्र सामग्रीविकलत्वेनावाचकत्वे साधोरसाधोर्वा

साम्येऽसाघुधुर्गव्यादिरपि अपशब्दो हि मूलभूतं गवादिशब्दमभिमृश्य तदनुमानेन

तदभिज्ञस्य तु तत्वारोपणार्थं बोधयति । एवं च साधोरसाधोर्वा सामग्रीसापेक्ष-

वाचकत्वावाचकत्त्वे च स्थिते अवाचकत्वात् साधोर्वाचकत्वादसाधोश्चापशब्दत्व-

सुशब्दत्वे च स्थिते पुराणादिष्वप्य साधुत्वादपशब्दत्वं निरस्तम् । विषये प्रयुक्तस्य

सुशब्दस्याप्यपशब्दत्त्वं स्थितं, यदुक्तम्-
-
 
अश्वगोण्यादयः शब्दा: साधवो विषयान्तरे ।
 

निमित्तभेदात् सर्व्वत्र साधुत्वंत्र साधुत्वं च व्यवस्थितम् ॥ इति,
 

 
ननु यद्यसाधोरपि वाचकत्वादनपशब्दत्वं तर्हि वैयाकरणाचार्यविरोधादागम-

विरोधः कथं नापतेत् ? अवहितो भूत्वा शृणु, समानायामप्यर्थावगतीतौ साधुभिरेव

भाषितव्यं नासाघुधुभिरिंरिति शास्त्रेण पाक्षिक्यां प्राप्तौ भाषणीयाभाषणीयत्वेन पक्षां-

तरनिवृत्तिः, साधुभिरेव भाषितव्यं नासाधुभिरिति पुण्यपापयोर्विषयीभूतयोर्भाषण-

विधिरपि नियमरूपः निषेधोऽपि नियमरूप एवेति तत्र नियमे तद्गतः साधूच्चा-

रणधर्म्म:मः । कूपखानकवद्वृत्या प्रतिविहितोऽतो नागमविरोधः । तत्र शब्द प्रधाने

वेदे न सा इति अर्थप्रधानेषु पुराणादिषु साऽस्तु । काव्यस्य च शास्त्रं प्रागेव दर्शितम् ।

तत्र तु शब्दार्थो थौचित्यजीवातुप्राप्तजीवरसात्मकत्वादुभयप्रधानत्वं तस्मात्कूपखान-

कवृत्तिः पुराणादिष्वप्येवेति स्थितम् । धर्मस्य च साधुशब्दोच्चारणजन्यत्वमा-

चार्योप्याह-
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy
 
-