2023-03-27 21:06:32 by manu_css
This page has been fully proofread once and needs a second look.
एवमस्मिन्वाक्ये स्वमतिपरिणामावधि पदार्थविचारेऽवधारिते संप्रति
वाक्यार्थविचारा या भूमिकोपरच्यते तत्र महिषितवपुषि विद्विषि वाक्यार्थ-
विषयभूते अप्राकरणिकप्राकृतमहिषप्रतिमोत्पत्तौ न किंचिन्निमित्तमुपलभ्यते ।
महिष-शब्द एवानेकार्थत्वादस्तु अथ तद्विशेषणानि अथ विशेषणानामनेकार्थत्वं
विशेष्यानेकार्थमन्तरेण न संभवतीति कृत्वोभयमपि वा परस्परानुग्राहितया अन्य-
स्यार्थप्रकरणादेरसंभवान्न निमित्तान्तरं विकल्पमर्हति, महिष-शब्दस्यानेकार्थत्वे
विशेषे नियमहेतोरभावादनभिप्रेतेप्यर्थे प्रतीत्युदयप्रसंगात् महिष-शब्द एव न
निमित्तम् । विशेषणानामपि दैत्यम[16a]हिषार्थाऽनुगुणार्थद्वययोगो विशेष्यार्थद्वया-
वगमः तदेवाकस्मिकः प्रसज्येत । विशेषणानां च विशेष्यद्वितीयार्थानुगुणार्थनिबंध-
नत्वे व्यक्तमन्योन्याश्रयः, तर्हि उभयमप्यस्तु अर्थांतरप्रतीत्युत्पादकं यथा मृदादिकं
घटादिकं प्रति विषमोऽयं दृष्टांतः घटाद्युत्पत्तौ समवायानपेक्षः कारणक्रमोऽयं शब्दे
तु वाचकभावेन श्रोतुः समवायानुसंधानापेक्षार्थप्रत्ययोत्पत्तिः न वाच्यवाचकस्व-
रूपावस्थानमात्रं कृता, अत्र दैत्यार्थकृता अत्र दैत्यार्थविषयस्य प्रयुक्तः शब्द एव
समय-विषय-संस्कारस्याविर्भावनिमित्तं प्राकृतमहिषार्थस्य तु अप्राकरणिकस्यावश्य-
मन्यदेव निमित्तं वाच्यं, अर्थद्वयेऽपि एक एव वाचकः समयो वा न निमित्तं, एकहेतु-
कत्वे प्राकरणिकाऽप्राकरणिकयोरर्थयोर्दैत्यार्थप्रतीतिः, अनन्तरमेव महिषार्थाव-
गमरूपः क्रमनियमो दुरुपपादः, यावन्तोऽर्थास्तावतां शब्दानामुपस्थापनांगीकारे
पक्षान्तरप्रतीतिः स्यात् । नहि एकेन शब्देन अर्थद्वयप्रतीतौ शब्दान्तरनिवेशो
युक्तः । अतो वाच्यावाच्ययोरर्थयोर्भिन्नहेतुकत्वमङ्गीकरणीयम् । तच्चोपात्तशब्दा-
वृत्या वा अर्थप्रकरणादिना वाऽर्थो देव्या सह युद्धाभिनिवेशः प्रकरणं च दैत्य-
वर्णनोपक्रमः तेनाऽस्तु न काचन क्षतिः, द्वितीयार्थप्रतीत्युद्भवे प्रकरणादेरसंभवः ।
अन्यस्मात्प्रकरणादेर्द्वितीयार्थप्रतीतौ तस्यैव हेतुता तस्मात् ग्रस्ताश्वः शष्प-
लोभादित्यादौ निबंधनान्तररहितस्य महिषशब्दस्यानेकार्थावबोधहेतुक: शब्द-
शक्तिकल्पनारूपोऽर्थान्तरप्रतीत्यभ्युपगमो निर्मूल एव युक्तः । अतो द्वितीयार्था-
भिधाने प्रस्तुतार्थप्रसंगापत्तेरुपमानोपमेयभावकल्पनापि निर्मूलैव यतो वाच्या-
ऽतिरेकिणोऽर्थांतरस्य प्रतीतिरेव दुःप्रतीतिः । यतः शब्दानां संकेतप्रतिसंधाना-
ऽनुकूला संयोगाद्यनुकूला वाऽर्थप्रतीतिः, अतो नियतार्थत्वाभावात् सर्व्वोऽर्थः सार्वैः
शब्दैर्वाच्यो भवति । अतः सामग्रीवशात् अन्योऽपि घटादिशब्द: कंबलाद्यर्थ-
वाचको भवति । सामग्रीविकलत्वेन घटशब्दोपि तदर्थबोधको न स्यात् । संकेतस्तु
नियत एव यतः सामग्रीवशादर्थ-प्रत्ययः । ततश्चार्थभेदे शब्दभेदाद् अन्यो दैत्य-
वाची अन्यो महिषवाची सामग्रीवशात् द्वितीयार्थोद्बोधकसंभवात् समासोक्ति-
न्यायेन विशेषणसाम्ययुक्त्या द्वितीयमर्थं बोधयितुं शक्नुयादेव, तत्र हि विशेष्यं