This page has been fully proofread once and needs a second look.

दृष्टार्थानुपपत्या च कस्याप्यर्थस्य कल्पना ।
क्रियते यद्बलेनासावर्थापत्तिरुदाहृता ॥ इति,
 
यथा 'पीनो देवदत्तो दिवा न भुंक्ते' इति वाक्यात्पीनगुणविशिष्टस्य देव-
दत्तस्य दिनभोजनप्रतिषेधोऽवगम्यते रात्रिभोजनं तु पीनत्वाऽन्यथाऽनुपपत्त्या
प्रतीयते । तद्वदिहापि प्रमाणान्तरगम्यः क्रियासंबंध इत्यर्थः । तर्हि कथं प्रसज्य-
प्रतिषेधप्रतीतिर्लोकानां अर्थापत्तिप्रतीतक्रियासंबंधमात्रकृता तद्भ्रांतिः, परं
निश्चयेनाश्राद्धभोजीत्यस्य प्रतिषेधस्य प्रसज्यप्रतिषेधरूपता कापि न संभवति ।
प्रसज्यप्रतिषेधता तु वाक्यादेव न[15b] समासात् । समासवाक्ययोः सिद्धः कारक-
रूप: साध्यः क्रियारूपो योऽर्थस्तत्प्रधानतया भिन्नार्थत्वात् भवितव्यमेव ।
अश्राद्धभोजीत्यत्र समासेन असूर्यंपश्यादिष्वपि पर्युदास एव, असूर्यललाटयो-
र्दृशितयोरिति खश्-प्रत्ययविधाने वृत्तिकारेणोक्तं, अत एव निपातनात् असमर्थ-
समास इति । असूर्यशब्देनासूर्येतरदर्शनं प्रतीयते । प्रथमतः सूर्येण समासे ततो-
ऽसमर्थ: समास एव न भवति, राजदाराणां पुरुषांतरदर्शनायोगात् विवक्षितार्था-
सिद्धेः । न सूर्यं पश्यंतीति प्रसज्यप्रतिषेधे समासस्य विधानात् असामर्थ्यं तत्परि-
हारार्थोऽतिदेशोऽश्राद्धभोजिवदिति । यथा वृत्तिकारमते असमर्थं समासं विधायोप-
पदस्थापनं आचार्याभिप्रायः । तथाकरिष्यमाणं नञ्समासं विषयीकृत्य सूर्यपदस्यै-
वोपपदत्वं, तद् योगात् प्रत्ययविधानं, ततः उभयपदसमासः । ततः कर्त्रंश-
प्राधान्येन नञ्समासः आचार्यस्याभिमतः । अप्रसोढेति पदे निषेधस्य प्राधान्य-
विवक्षा न विधेः प्रसोढेतरस्य । तर्हि न भवितव्यमेव समासेन, यथा भुंक्ते सदा-
श्राद्धमयमपरांश्चोपतापयेदिति अयथार्थमेव । सम्यक् स्वभावावगतौ स यवान्न-
श्राद्धभोजी न परोपतापी अत्र णिनि-प्रत्ययांतस्य कर्त्रंशेन वा क्रियांशेन वा संबन्धा-
भावान्न पूर्व: पर्यनुयोगः, किंतु प्रतीयमानेन क्रियासंबन्धेनाऽपरिपूर्णस्य वाक्यार्थस्य
पूर्णाक्षेपलब्धस्य भगवत्यादि क्रियार्थेन समन्वयो विप्रतिपन्नो निषेधस्य प्राधान्येन
ज्ञायते, क्रियापदान्तश्रवणे कृभ्वस्ति-संबंधस्य न्यायसिद्धत्त्वात् । तर्हि
असमासेऽपि पर्युदास एवास्तु न नञर्थेन विशिष्टस्योत्तरपदार्थस्य श्राद्धभोजन-
शीलस्य विधेरप्रतीतेः तत्प्रतीतिरूपत्त्वात् पर्युदासस्य अयं तु प्रसज्य-विषय एव
नान्यः, अश्राद्धभोजी अप्रसोढेति च तस्मात् अप्रसोढेति पदसंबंधस्य नञो
विधेयार्थप्रतिपादकतया प्रधानस्य अनूद्यमानार्थप्रतिपादकतया तस्य प्रधानस्य
विपरीतक्रियेणाऽप्रधानाभिधायकेन प्रसोढपदेन समासो विद्वद्भिर्नेष्यत एवेति
स्थितं, तथा चोपसंहारार्थः
 
नञर्थस्य विधेयत्वे निषेध्यस्य विपर्यये ।
समासो नेष्यतेऽर्थस्य विपर्यासप्रसंगतः ॥ इति,