This page has been fully proofread once and needs a second look.

३८ ]
 
महाकविबाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क ८ व्याख्या
 
दृष्टार्थानुपपत्या च कस्याप्यर्थस्य कल्पना ।

क्रियते यद्बलेनासावर्थापत्तिरुदाहृता ॥ इति,

 
यथा 'पीनो देवदत्तो दिवा न भुंक्ते' इति वाक्यात्पोपीनगुणविशिष्टस्य देव-

दत्तस्य दिनभोजनप्रतिषेधोवगम्यते, रात्रिभोजनं तु पीनत्वाऽन्यथाऽनुपपत्या
त्या
प्रतीयते । तद्वदिहापि प्रमाणान्तरगम्यः क्रियासंबंध इत्यर्थः । तर्हि कथं प्रसज्य-

प्रतिषेधप्रतीतिर्लोकानां अर्थापत्तिप्रतीतक्रिया संबंधमात्रकृता तद्भ्रांतिः, परं

निश्चयेनाश्राद्धभोजीत्यस्य प्रतिषेधस्य प्रसज्यप्रतिषेधरूपता कापि न संभवति ।

प्रसज्यप्रतिषेधता तु वाक्यादेव न[15b] समासात् । समासवाक्ययोः सिद्धः कारक-
रूप
: कारक-
रूपः
साध्यः क्रियारूपो योऽर्थस्तत्प्रधानतया भिन्नार्थत्वात् भवितव्यमेव ।

अश्राद्धभोजीत्यत्र समासेन सूर्यंपश्यादिष्वपि पर्युदास एव, सूर्यललाटयो-
हं

र्दृ
शितयोरिति खश्-प्रत्ययविधाने वृत्तिकारेणोक्तं, अत एव निपातनात् असमर्थ-

समास इति । प्रसूर्यशब्देनासूर्येतरदर्शनं प्रतीयते । प्रथमतः सूर्येण समासे ततो-

ऽसमर्थ: समास एव न भवति, राजदाराणां पुरुषांतरदर्शनायोगात् विवक्षितार्था-

सिद्धेः । न सूर्यं पश्यंतीति प्रसज्यप्रतिषेधे समासस्य विधानात् असामर्थ्यं तत्परि-

हारार्थोऽतिदेशोऽश्राद्धभोजिवदिति । यथा वृत्तिकारमते असमर्थं समासं विधायोप-

पदस्थापनं आचार्याभिप्रायः । तथाकरिष्यमाणं नञ्समासं विषयोयीकृत्य सूर्यपदस्यै-

वोपपदत्वं, तद् योगात् प्रत्ययविधानं, ततः उभयपदसमासः । ततः कर्त्रंश-

प्राधान्येन नञ्समास:सः आचार्यस्याभिमतः । प्रसोढेति पदे निषेधस्य प्राधान्य-

विवक्षा न विधेः प्रसोढेतरस्य । तर्हि न भवितव्यमेव समासेन, यथा भुंक्ते सदा-

श्राद्धमयमपरांश्चोपतापयेदिति यथार्थमेव । सम्यक् स्वभावावगतौ स यवान्न-

श्राद्धभोजी न परोपतापी अत्र णिनि-प्रत्ययांतस्य कत्र र्त्रंशेन वा क्रियांशेन वा संबन्धा-

भावान्न पूर्व: पर्यनुयोगः, किंतु प्रतीयमानेन क्रिया संबन्धेनाऽपरिपूर्णस्य वाक्यार्थस्य

पूर्णाक्षेपलव्ब्धस्य भगवत्यादि क्रियार्थेन समन्वयो विप्रतिपन्नो निषेधस्य प्राधान्येन

ज्ञायते, क्रियापदान्तराश्रवणे कृभ्वस्ति - -संबंधस्य न्यायसिद्धत्त्वात् । तर्हि

असमासेऽपि पर्यु दास एवास्तु न नर्थेन विशिष्टस्योत्तरपदार्थस्य श्राद्धभोजन-

शीलस्य विधेरप्रतीतेः तत्प्रतीतिरूपत्त्वात् पर्यु दासस्य श्रयं तु प्रसज्य -विषय एव

नान्यः, श्रश्राद्धभोजी अप्रसोढेति च तस्मात् श्रप्रसोढेति पदसंबंधस्य नवो
ञो
विधेयार्थंप्रतिपादकतया प्रधानस्य अनूद्यमानार्थप्रतिपादकतया तस्य प्रधानस्य

विपरीतक्रियेणोणाऽप्रधानाभिधायकेन प्रसोढपदेन समासो विद्वद्भिर्नेष्यत एवेति

स्थितं, तथा चोपसंहारार्थ:
 
T
 
नव
थः
 
नञ
र्थस्य विधेयत्वे निषेध्यस्य विपर्यये ।

समासो नेष्यतेऽर्थस्य विपर्यासप्रसंगतः ॥ इति,
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy