This page has been fully proofread once and needs a second look.

यथा युगोपात्मानमत्रस्त इत्यत्र निषेधगुणाभावेन विधिरिति तात्पर्यार्थः । एतच्च
समानाऽसमानजातीयव्यावर्त्तकं निषेधात्मकत्वेन समानजातीयप्रसज्यप्रतिषेधे
समासाभावः । नञ्-समासस्य विषयेन प्रसज्यप्रतिषेधः, तस्य समासविषयविपरी-
तत्वात्, तदुक्तं, अप्राधान्यं विधेर्यत्र प्रतिषेधोऽसौ क्रियया सह यत्र नञिति आरोप्य-
माणसद्भावोपसर्ज्जनः प्रसज्य-प्रतिषेधः क्रियासंबंधवान्निषेधः । प्रसज्य-प्रतिषेध
इति च अनेनापि लक्षणेन क्रियाशब्दैर्भवत्यादिभिः समासाभावात् । सुबंतस्य नञ:
समर्थेन सुबतेनैव सह-सुपेत्यधिकारे समासविधानात् प्रसज्य-प्रतिषेधे समासा-
भावः । यथा, 'नवजलधरः सन्नद्धोयं न दृप्तनिशाचर' इत्यत्र । अत्र च अप्रसोढा-
नलोष्मेति अर्थस्य प्रतिषेधप्रधानस्य संबंधानुपपत्तेः पर्युदासो न युक्तः । यतोऽत्र
प्रसोढाऽनलोष्मत्वप्रतिषेधः प्रधानतया वक्तव्ये नाभिमतः प्रसक्तस्य प्रसोढानलोष्म-
त्वस्यैव प्रतिषेध्यत्वात् न तु प्रसोढानलोष्मत्वेतरविधिः, पर्युदासे हि समासे सति
प्रसोढानलोष्मेतरविधिः पर्यवस्यतीति नियमेन विवक्षितेतरसिद्धिरेव नाभिमत-
सिद्धिः । असोढेति पदे एव क्रियांशस्य प्रतिषेधप्रतीतौ सत्यां नञः क्रियासंबन्ध
उपपन्नो भवति, अयमभिसन्धिः । भवति पचतीत्यादिषु तिङन्तेषु प्रकृत्या क्रियोच्यते
प्रत्ययेन कर्त्ता सिद्धिरूपः तथापि समुदाये साध्यरूपा क्रिया एव प्रधानं, कृदन्तेषु
पाचककुंभकारादिषु तु कर्ता एव प्रधानं सिद्धरूपः, न क्रिया; तथापि तव्यनिष्ठा-
दिषु उभयप्राधान्येन प्रयोगः क्वचित्क्रियाप्राधान्येनैव यथा घटमकार्षीदिति
क्रियान्वयेन वाक्यस्य नैराकांक्षम । एवं घटं कृतवानित्यपि च क्रियांशप्राधान्येन
नैराकांक्षमेव । तथा सति प्रसोढेति पदेऽपि क्रियांशप्राधान्यात् तत्प्रतिषेधप्रतीतौ
नञः क्रियया संबंधोपपत्तेः क्रियासंबंध-नञर्थः प्रसज्यप्रतिषेध इत्यस्य कृतसंबंधेऽपि न
विरोधः, तर्हिः समासे अपि क्रियांशप्राधान्यान्नञर्थसंबंध: प्रतीयतां नाम, मैवं तत्प्रती-
तेर्योगिनामप्यगम्यत्वात् । यतः प्रसोढेत्यस्य निषेधस्य गुणीभूतत्वेन तादृशस्य
अन्यस्यैवार्थस्य तत्सदृशस्य सद्भावे प्रतीतेः । यथा अनश्व इत्युक्ते अश्वनिषेधं
उपसर्ज्जनीकृत्याश्वसदृशस्य गर्दभस्यैव सद्भाव: प्रतिपादितो भवति । यदि च
तत्सादृश्यं न प्रतिपाद्यं स्यात् किमर्थं सर्व्वतद्रूपताप्रतिपादनपराश्वनिषेधेन गर्द्दभं
ब्रूयात् ? गर्द्दभं इत्येव किं न तस्मात्सर्व्वतद्रूपतानिषेधे किञ्चित्ताद्रूप्यस्वीकारपर-
त्वमेव स्वीकर्त्तव्यम् । शब्दशक्तिबलादेव न च केनापि प्रकारेण प्रसोढत्वनिषेध-
प्रतीतिरित्यर्थः । विविक्षितस्यार्थस्य प्रसोढत्वनिषेधस्य कथमपि सिद्धौ प्राधान्येन
समासो न युक्तः । तस्मादेकं संधित्सतोऽपरं प्रच्यवत इति [ 15a] न्यायात् । निषेध-
प्राधान्ये समासाभावः। समासे च निषेधाऽप्राधान्यमित्यर्थः । भवतु समासेऽपि
नञर्थस्य प्राधान्यं, का नः क्षतिरिति । अहो प्रज्ञाप्रागल्भ्यमायुष्मतां यत्समास-
लक्षणमपि विलक्षणतामापाद्यमानं न पश्यति । विलोकयन्तु निषेधस्य विधीयमान-