This page has not been fully proofread.

मेवपाटेश्वर-कुम्भकर्ण-कृत-वृत्ति समेतम्
 
[ ३३
 
व्यासंगात् पादतले लग्नं प्रणुतरं दर्भाग्रमात्रं न गणयति तथेति । अथवाऽयं विग्रहः
दर्भाग्रसूच्याः लघुः सुसूक्ष्मो भागः स इव न गणितः, अत्र गर्भशब्देन पादतलमध्यम् -
प्रसादादथवौचित्याद् देशकालविभागतः
शब्दैरर्थाः प्रतीयन्ते न शब्दादेव केवलात् ।
 
पद्याङ्क ७-८ व्याख्या ]
 
ww
 
इति न्यायमाश्रित्य व्याख्यातम् । पुनः किम्भूतः, पाणिनिर्यातसारः, निःशेषं
यातो निर्यातः, निर्यातः सारो यस्मादसौ निर्यातसारः, पार्ष्णचा निर्यातसार: पाणि-
निर्यातसार: । अत्र केचित् पाणिनिष्ठचूतसारमिति पाठान्तरेण व्याकुर्व्वन्ति,
एतदुक्तं भवति - लाघवात् चरणव्यावर्तनेन क्रमेणंवं कृतः- पूर्व्व मंगुष्ठाग्रेण
निरस्तः, तदनु तन्नखाग्रेण, ततः पादस्य मध्ये इति पादतलमध्यं आनीतः, पश्चात्
पार्ष्या पिष्ट: । एवं च पाणिग्रहणे पश्चात्कर्त्तव्ये वृत्तानुरोवात् मध्येऽभाणि ।
अत्र च उपसर्प्पन्नित्यत्रोपशब्दो न समीपार्थे उक्तसमीपशब्दस्थाने हसंत्या इति
पाठं पठन्ति । तदभिप्राय:, अंगुष्ठाग्र नखशिखरे अतिक्रम्य शिक्षालाघवात् पाद-
तलं प्राप्तं दृष्ट्वा ईषद्धासं विधाय पार्ष्या पीडित इत्यर्थः ॥७॥
 
सं० व्या० – ७. निष्ठ्यत इति ॥ सा शिवा शिवपत्नी वो युष्माकं शान्त्यै
शान्तये अस्तु भवतु, दैत्यानां अधीशो दैत्याधीश: महिष: समीपमुत्सर्पन् यया
शिवया पादस्य व्याहतत्त्वात् क्रमेणैवं कृतः, किंभूत इत्याह, पूर्व तावत्
अङ्गुष्ठकोट्या निष्ठच तः अङ्गुष्ठाग्रेण निरस्तः तदनु नखशिखरहतः तस्यैव तस्या
यो नखस्तस्य शिखरेण विभागेन हतस्ताडितः, तदनन्तरं च गर्भे पादमध्ये सूच्या
सूची तस्या लघुः स्तोक: अग्रसूचोलघुः दर्भाग्रसूचीलघुः स इव न
गणितः न मतः, अथो पाणिनिष्णातसार: पाष्णूंचा पादपश्चिमभागेन निष्णातो
नितरां स्नातो मग्नः बलं यस्य स तथोक्तः निस्नाति इत्यनेन स्नात इति षत्वं,
गर्भे दर्भाग्रसूचीत्यादि पश्चात् पाणिनिष्णातसार इति पदे प्रयोक्तव्ये छन्दो-
वशात् पूर्वमेव प्रयुक्तमिति प्रष्टव्यं, इदानीं मामकीनोऽनेन पादोऽतिक्रान्त
इति भावेन हसन्त्या प्रहसितवदनया पादपातेन समग्रस्यैव पादस्य पातेन नाभौ
वक्त्रं प्रविष्टाकृतिविकृतियंस्य वक्त्रस्य तथाविधं कृत्वा पश्चाद्व्यापादित
इत्यर्थः ॥७।
 
इदानीं महिषस्य सर्व्वजेतृत्वं तज्जयेन देव्याः सर्वोत्कृष्टत्वं च वर्णयन्नाह-
ग्रस्ताश्वः शष्पलोभादिव हरितहरेरप्रसोढानलोष्मा
 
स्थाणौ कण्डू' विनीय प्रतिमहिषरुषेवान्तकोपान्तवर्त्ती ।
कृष्णं पङ्क॰ यथेच्छन् वरुणमुपगतो मज्जनायैव यस्याः
 
स्वस्थोऽभूत्पादमाप्त्वा हृदमिव महिषः साऽस्तु देवी मुद्दे वः ॥८॥
 
१ का० - दुर्गा श्रिये वः ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy