This page has not been fully proofread.

पद्याङ्क ६ व्याख्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
हेतुः समस्तजगतां त्रिगुणापि देवें-
र्न ज्ञायसे हरिहरादिभिरप्यपारा ।
सर्वाग्र ( अ ) याऽखिलमिदं जगदंशभूत-
मव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥ इति,
 
प्रकृतेर्महांस्ततोऽहंकारस्तस्माद्गणश्च षोडशक इत्यादि सप्तत्युक्त वच-
मंत्र्यादिचित्तपरिकर्म्मविदो विधाय,
 
क्लेशप्रहाणमिह लब्धसबीजयोगाः ।
ख्याति च सत्वपुरुषान्यतयाऽधिगम्य,
 
T
 
[ ३१
 
वाञ्छन्ति तामपि समाधिभृतो निरोद्धम् ॥ इति,
माद्येपि ( ? ) पुनः किं विशिष्टा, अविकृतिर्न विद्यते विकारो यस्याः सा तथा, ताह-
श्यपि व्यतिकरे विकारदर्शनात् यद् भगवत्या विश्वोपकारित्वं अविकारित्वं च
उक्त च तदेव दृष्टान्तदान्तिकभावेन विशदयति । सा का यस्याः पादोपशल्ये
चरणसमीपे दूरदुष्टाशयोऽपि अत्यन्तदुष्टचित्तोऽपि त्रिदशरिपुपतिः त्रयोदशकाः
परिमाणमेषां ते त्रिदशाः, वा तिस्रो दशा वयोऽवस्था येषां त्रिदशाः, सर्व्वदा त्रिंशद्वर्षाः,
त्रिदशानां देवानां रिपव: त्रिदशरिपवस्तेषां पतिः स तथा; नाके स्वर्गे प्रतिष्ठां
स्थिति प्रापत् लेभे; किं कुर्व्वन् सन् अभिमुखः सन्, शृंगाग्रकोटया गाग्र विभागेन
नूपुरस्य मंडलीं असकृत् वारं वारं हत्वा वादयन् सशब्दां कुर्व्वन्, किंभूतां मंडलीं
रणितर्माण रणिताः शब्दिता मणयो यस्यां सा तथा तां; कामिव, कोणेन वीणा-
मिव, कोणो बीणादिवानमिति । एतदुक्तं भवति । दुष्टाशयोsपि महिष: रणा-
•ऽजिरेऽभिमुखः सन् नूपुरमंडलदेशे प्रहरन्नपि स्वर्गमाप । एतच्च परमेश्वर्याः कृपालु-
त्वम् । अनु च रणेऽभिमुखस्य मृतस्य स्वगत्वम् । अनु च नूपुर मंडल्या वीणोपमानेन
पार्व्वत्याः पुरतः स्मृतिनोदितस्य वीणावादनस्य स्वर्गप्राप्तिहेतुत्वं च दर्शितम् ।
तथा च स्मरणं-
वीणावादनतत्वज्ञः श्रुतिजातिविशारदः ।
 
तालज्ञश्चाप्रयासेन मोक्षमार्ग निगच्छति । इति
वीणाया नुपुरमंडल्याश्चोपमानोपमेयभावादुपमालंकारः ॥६॥
 
-
 
सं० व्या० – ६. शश्वदिति ॥ शिवा भवानी वो युष्माकं शश्वत् नित्यं
शान्तये अस्तु भवतु, किंविशिष्टा शश्वद्विश्वोपकारिप्रकृतिरविकृतिः विश्वस्य
जगत: उपकतु शीलं यस्याः सा तथाविधा प्रकृतिः स्वभावो यस्याः सा विश्तोप-
कारिप्रकृतिः, अविकृतिः न विद्यते विकृतिः विकारो यस्याः सा अविकृतिः, कथं
विश्वोपकारिप्रकृति र विकृतिश्चेत् इति दर्शयन्नाह - 'यस्याः पादोपशल्ये' इति; यस्याः
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy