2023-03-27 21:02:34 by manu_css
This page has been fully proofread once and needs a second look.
सं० व्या०--५. दत्ते दर्पादिति । कुमार: कार्तिकेय: मुष्यात् मुष्णातु वो
युष्माकं किल्विषाणि पापानि, किं कुर्व्वत् आददानो गृह्णन् शृंगस्य कोटिं अग्र-
भागं व्यतिकरविरतौ महिषयुद्धलक्षणस्य व्यतिकरस्यावसाने केन हेतुना गृह्णन्
तदुच्यते, मातुः प्रभ्रष्टलीलाकुवलयकलिका सा चासौ कर्णपूरश्च स कुवलय-
कलिकाकर्णपूरस्तस्य आदरेण श्रद्धया कुमारः शृंगस्य कोटिं दधानः इति सम्बन्धः;
कस्य महिषसुररिपो: महिषश्चासौ सुररिपुश्चेति विग्रहः, किंविशिष्टां शृङ्गस्य
कोटिं पदभरोत्पिष्टदेहावशिष्टां दर्पात् दर्पेण प्रहारे दत्ते सति सपदि तत्क्षणं
पदभरेणोत्पिष्टश्चूर्णितः स चासौ देहश्च ततोऽवशिष्टामुद्धृतां, पुनरपि किं-
विशिष्टां श्लिष्टां संलग्नां, क्व नूपुरग्रन्थिसीम्नि नूपुरस्य या ग्रन्थिस्तस्याः सीम्नि
सीमायामित्यर्थः ॥५॥
इदानीं ब्रह्मस्वरूपाया भवान्या यथाकथंचिदपि स्मरणं दर्शनं च सकलकलि-
मलापहारीति दुष्टस्यापि महिषस्य स्वर्गप्राप्तिद्वारेणाह--
शश्वद्विश्वोपकारप्रकृतिरविकृतिः साऽस्तु शांत्यै शिवा वो
यस्याः पादोपशल्ये त्रिदशरिपुपतिर्दूरदुष्टाशयोऽपि ।
नाके प्रापत् प्रतिष्ठामसकृदभिमुखो वादयन् शृंगकोट्या
हत्वा कोणेन वीणामिव रणितमणिं मण्डलीं नूपुरस्य ॥६॥
कुं. वृ.--सा शिवा पार्व्वती वो युष्माकं शांत्यै शमसुखायास्तु भवतु । सा कथं-
भूता, शश्वत् अनवरतं विश्वोपकारप्रकृतिः, विश्वस्योपकारो विश्वोपकारः स एव
प्रकृतिः स्वभावो यस्याः सा तथाऽथवा विश्वस्य जगतः उपकरोतीत्येवंशीला
उपकारिणी; तथा, तथाविधा प्रकृतिः स्वभावो यस्याः सा तथाऽथवा विश्वोप-
कारिणी चासौ प्रकृतिश्च विश्वोपकारप्रकृतिः, गुणत्रयसाम्यावस्था प्रकृतिः
प्रधानमिति यावत् सापि महदादिस्व(स)र्गद्वारा संसारहेतुत्वात् आत्मपुरुष-
विवेकद्वारेण मोक्षहेतुत्वाच्च विश्वोपकारिणी भवति षोडशकविकारकार[12b]ण-
त्वात् प्रकृतिरिव । तथा चोक्तं मदीये दर्शनसंग्रहे--
सत्वं रजस्तम इति गुणास्त्रय उदाहृताः ।
तत्साम्यावस्थितिर्नाम प्रधानं प्रकृतिस्तु सा ।
सैवा विकृतिराख्यातेति मूलप्रकृतिरविकृतिर्महदाद्या प्रकृतिविकृतयः सप्तेति;
सप्तेति सप्तत्यामपि विकृतिशब्देन कार्यमुच्यते । सर्व्वस्य कारणत्वात् प्रकृतिः
केनापि न क्रियते इति अविकृतिः । तथा च मार्कण्डेयपुराणे--