This page has not been fully proofread.

३० ]
 
महाकविबाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क ५-६ व्याख्या
 
सं० व्या० – ५. दत्ते दर्पादिति । कुमार: कार्तिकेय: मुष्यात् मुष्णातु वो
युष्माकं किल्विषाणि पापानि, कि कुर्व्वन् श्राददानो गृह्णन् शृंगस्य कोटिं अग्र-
भागं व्यतिकरविरतौ महिषयुद्धलक्षणस्य व्यतिकरस्यावसाने केन हेतुना गृह्णन्
. तदुच्यते, मातुः प्रभ्रष्टलीलाकुवलयकलिका सा चासौ कर्णपूरश्च स कुवलय-
कलिकाकरणपूरस्तस्य प्रादरेण श्रद्धया कुमारः शृंगस्य कोटि दधानः इति सम्बन्धः;
कस्य महिषसुररिपोः महिषश्चासौ सुररिपुश्चेति विग्रहः, किंविशिष्टां भृङ्गस्य
कोटिं पदभरोत्पिष्टदेहावशिष्टां दर्पात् दर्पेण प्रहारे दत्ते सति सपदि तत्क्षणं
पदभरेणोत्पिष्टश्चूर्णितः स चासी देहश्च ततोऽवशिष्टामुद्धृतां, पुनरपि कि-
विशिष्टां श्लिष्टां संलग्नां, क्व नूपुरग्रन्थिसीम्नि नूपुरस्य या ग्रन्थिस्तस्याः सीम्नि
सीमायामित्यर्थः ॥ ५॥
 
,
 
इदानीं ब्रह्मस्वरूपाया भवान्या यथाकथंचिदपि स्मरणं दर्शनं च सकलकलि-
मलापहारीति दुष्टस्यापि महिषस्य स्वर्गप्राप्तिद्वारेणाह-
शश्वद्विश्वोपकारप्रकृतिरविकृतिः साऽस्तु शांत्यै शिवा वो
 
यस्याः पादोपशल्ये त्रिदशरिपुपतिदूरदुष्टाशयोऽपि ।
नाके प्रापत् प्रतिष्ठामसकृदभिमुखो वादयन् शृंगकोटया
 
हत्वा कोणेन दीणामिव रणितम रिंग मण्डलीं नूपुरस्य ॥६॥
 
-
 
कुं. वृ. - सा शिवा पार्व्वती वो युष्माकं शांत्यै शमसुखायास्तु भवतु । सा कथं-
भूता, शश्वत् अनवरतं विश्वोपकारप्रकृतिः, विश्वस्योपकारो विश्वोपकारः स एव
प्रकृतिः स्वभावो यस्याः सा तथाऽथवा विश्वस्य जगतः उपकरोतीत्येवंशीला
उपकारिणी; तथा, तथाविधा प्रकृतिः स्वभावो यस्याः सा तथाऽथवा विश्वोप-
कारिणी चासो प्रकृतिश्च विश्वोपकारप्रकृतिः, गुणत्रयसाम्यावस्था प्रकृतिः
प्रधानमिति यावत् सापि महदादिस्व (स ) गंद्वारा संसारहेतुत्वात् श्रात्मपुरुष-
विवेकद्वारेण मोक्षहेतुत्वाच्च विश्वोपकारिणी भवति षोडशकविकारकार (12b]ण-
त्वात् प्रकृतिरिव । तथा चोक्त मदीये दर्शन संग्रहे-
T
 
सत्वं रजस्तम इति गुणास्त्रय उदाहृताः ।
तत्साम्यावस्थितिर्नाम प्रधानं प्रकृतिस्तु सा ।
 
संवा विकृति राख्यातेति मूलप्रकृतिरविकृतिर्मंहदाद्या प्रकृतिविकृतयः सप्तेति;
सप्तेति सप्तत्यामपि विकृतिशब्देन कार्यमुच्यते । सर्व्वस्य कारणत्वात् प्रकृतिः
केनापि न क्रियते इति अविकृतिः । तथा च मार्कण्डेयपुराणे-
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy