This page has been fully proofread once and needs a second look.

पद्यांक ५ व्याख्या ]
 
मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्ति समेतम्
 
[ २३
 
पूरश्च लीलाकुवलयकलिकाकर्णपूरः, तस्य श्रादरस्तेन भ्रान्तिसमुत्थया श्रद्धयेति

यावत् । कस्यां सत्यां, व्यतिकरविरतीक्तिकरविरतौ, व्यतिकर: संग्राम: तस्य विरतिर्विरामो-

ऽवसानमिति यावत् तस्याम् । अत्र कलिकैव कर्णपूरः इति रूपकालङ्कारः। ग्र । अन्यच्च,

कुवलयकर्णपूर इत्येवं सिद्धे कलिकाग्रहणं व्यर्थम् । कलिका चासौ कर्णपूरश्चेति

लिंगानौचिती च मातुर्ग्रहणमंस्थान निक्षिप्तमिति । अस्थानस्थपदाख्यो दोषश्चापि
मातु:

मातुः
कर्णपूर इति अर्थादेवाक्षिप्यते, महिषस्य कर्णपूराभावात् । मातृप्रभ्रष्ट-

लीलेति पाठेन भवितव्यम् । तथा च, महाकवीनां रहस्यम्
 
--
 
यतः समासो वृत्तं च वृत्तयः काकवस्तथा ।

वाचिकाभिनयात्मत्वाद्रसाभिव्यक्तिहेतवः ॥
 

 
तथा-
-
 
तस्माद्भिन्नपदार्थानां संबंधश्चेत्परस्परः ।
 

न विच्छेदान्तरारां कार्यो रसभंङ्गकरो हि सः ॥
 

 
इति विस्तरभोभीत्योपरम्यते । किंविशिष्टां शृंगस्य कोटिं, दर्प्पात् गर्व्वात्

प्रहारे दत्ते सति, अर्थाच्चरणस्यैव सपदि तत्कालं पदभरोत्पिष्टदे[12a ] हाव शिष्टां,

पदस्य भरः पदभर:रः गुरुत्वं तेन उत्पिष्टश्चूर्णीकृतःत: स चासोसौ देहश्च तस्मात्

अवशिष्टा शेषा या सा तां; पुनः किंविशिष्टां, नूपुरग्रंथिसीम्नि श्लिष्टां नूपुरस्य

ग्रंथि: नूपुरग्रंथि: तस्य सीमा संधिः तस्यां नूपुरग्रन्थिसीम्नि लग्नां, तदयं

वाक्यार्थ:थः संपन्नः । रणरसिकत्वेन शृंगाग्रेण नूपुरमुच्छेत्तुमिच्छोर्म हिषस्य रोषात्

पादप्रहारेण देहस्तथा वज्रनिष्पेषपिष्टो यथा नूपुरे लग्नशृंगाग्र मात्रावृते

महिषस्य न किंचिदवशिष्टं, अणुमात्रमपि दृश्यं नाभूत् । एवं सति स्वस्थां

परमेश्वरीमालोक्य लीलाकुवलयकलिकाभ्रांत्या नूपुरग्रंथिसीम्नि लग्नां शृंगकोटि-

माददानः कुमारो वः पायादिति । अत्र महिश्चासौ सुररिपुश्चेति महिषस्य

सुररिपुरिति विशेषणं विशेष्येण बहुलमिति सूत्रार्थपर्यालोचनया समासस्यासिद्ध-

त्वात् कथं कविना कृत इति तदभिप्रायमवगच्छद्भिर्विपश्चिद्भिः समास-
रि

श्चिन्तनीयः । तादृशि व्यतिकरेऽपि स्वास्थ्यादतिशयोक्तिः । कुवलयकलिकायाः

शृंगको टिरुपमानोपमेयभावो व्यङ्ग्यः । वा शृंगकोटि: कुवलयकलिकायै

उत्प्रेक्ष्यते तामपेक्ष्य भ्रांतिमतः प्रादुर्भावः तस्यैवात्र प्राधान्यं अपि च वीरसमुपक्रम्य-

शृंगारस्य प्रवृत्तिरिति कृत्वा तदाभासा अनौचित्यप्रवर्तिता इति रसाभासोऽव-

गन्तव्यः । उत्साहक्रोधयोः शांतिरपि यद्यपि वीरशृंगारयोः संकरो न विरुद्धः,

तथापि परिपोषं न नेतव्यः इत्यावेदितं प्राक् दप्पर्प्पादिति च यत् स्वपदेनोपादानं

तदपि न सामंजस्यमारोहतीत्यलं प्राकृतजनमात्रस्य मम महाकविप्रयोग-

विचारेणेति । अत्र शब्दचित्रमेवालंकारतया व्यवस्थापनीयं किकिं बहुना ॥५॥
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy