This page has been fully proofread once and needs a second look.

पद्याङ्क ४ व्याख्या ]
 
मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्ति समेतम्
 
[ २५
 
विगृहीतस्य पूर्वपदत्वं समानाधिकरणत्वं च तादृशस्याऽश्वशब्देन "नञ्" इत्यनेन

सूत्रेण समासः । यद्यपि विशेषणसूत्रेणैव समासः सिद्ध्यति तथापि 'ग्रव्ययं विभक्ती' ति
ति
नियमात् न सिद्धयतिध्यति, इति सूत्रारम्भः । व्यधिकरण विशेषणविशेष्यभावः कर्म्मा-

दीनां कारकाणां स्वस्वामिरूपस्य सम्बन्धस्य वैयधिकरणत्वेपि व्यावर्त्तकत्वाद्

बहुप्रकारस्य तत्पुरुषस्य पन्थाः । यद्यपि कर्मधारयोऽपि तत्पुरुषविशेष एव तथा-

प्युपयुक्तं विशिष्टतत्पुरुषविषयमेतद्वचनं व्यधिकरणेऽपि यदा अव्ययार्थस्य

विशेषणत्वम् । उपकुम्भमित्यत्रोपशब्दसमीपवाचिनोऽव्ययस्य कुम्भेन पदादिभ्यो

व्यावर्त्तनीयत्वाद् विशेष्यता कुम्भस्य तु विशेषणत्वं, उपशब्दस्य तु उपसर्जनत्वं

पूर्वनिपातार्थं पारिभाषिकं न तात्विकं; तात्विकं तु कुम्भपदस्यैव, द्वन्द्वे तु विशेषण-

विशेष्यभाव एव नास्ति, सर्वेषां समासपदानामितरव्यावर्त्तकत्वाभावात्, तस्मादेव

युक्तोतेन प्रकारेण कर्मधारयादीनां समासानां द्वन्द्वविरहितानां विशेषणांशः पूर्व-

पदार्थः । अव्ययी[10b] भावे चोत्तरपदार्थः, तद्विपरीतश्च विशेषांश: तदुभयपदस्य

प्रतिपादकत्वे स्थिते यदि विशेषणांश:शः स्वाश्रयस्य विशेष्यं सस्योत्कर्षापणद्वाराद्

वाक्यार्थं च, नमस्कारो विशिष्टार्थलाभात् चित्तस्योल्लासः, स च चित्तधर्मो रसा-

विर्भावहेतुः । तस्य कारणत्वं तेनैवाप्रधानस्यापि प्रधानत्वेन विवक्षा, न तु तत्वं

तस्याविषयीभूतो विधेयधुरां प्राप्नुयात् । विशेष्यांशस्तु अनूद्य सदृशत्वेन न्यग्भाव-
.
मिव न तु उपसर्ज्जनत्वमेव प्राप्नोति । तदासोसौ विशेषणांशो न समासस्य विषयो

लक्षणप्राप्तिरस्तीत्येतावता रसप्रतिपादनपदवाक्येन युक्तः । यतः समासे स प्रधानोप-

सर्ज्जनभावो विशेषण विशेष्यांशयोरस्तं प्राप्नुयात् तद्विशेषमेकमनेकं वा विधेय-

त्वेन विवक्षितम् । अस्तु, न भेदः कश्चिदिति । ननु विशेषणं व्यवच्छेदकं तच्च

व्यवच्छेद्यस्य गुणीभूतं विधेयत्वं च प्रधानत्वं वक्तुर्हि विवक्षाप्रधाने भवति,

तदङ्गत्वेन विशेषणमाकांक्षावशात्परापतति तत्कथमेकत्र पदे तयोः समावेशः ?

एकत्र प्रदेशे एकस्य पदार्थस्य भावाभावयोरिव अन्योन्यविरोधे एकस्य स्थिता-

वितराऽवस्थितिः कथमुपपद्यत इति । येनैकत्रोत्कर्षाधानद्वारा विधेये विशेषणे नैय-

त्येन समासनिषेधः । अन्यत्र स्वरूपपरे विशेषणे विकल्पः, नैष दोषः, विरोधस्यो-

भयवस्तुनिष्ठत्वात् सम्बन्धवत् । यथा एकत्र जलादौ शीतत्वेन सहोष्णत्वं नाव-

तिष्ठते न च सत्यत्वमुभयोः संभवति । सत्ययोर्हि शीतत्वोष्णत्वयोर्विरोधो न तु

सत्यासत्ययोः । यथा विरहिणा परिकल्पितस्य शशिनि संतापस्य तदीयेन शीतत्वेन

विरोध:, यथा वा मृगतृष्णिका घर्मसंतापस्य कल्पितेन जलशीतत्वेन विरोधः ;

एवमिहापीति । एकस्य विशेषणस्य सत्यत्वात् विधेयस्य तु विवक्षितत्वेन सत्य-

त्वाभावात् । इच्छा हि अवस्तुन्यपि भवति, न हि सत्यं हस्तिनःन: कल्पना
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy
 
T