This page has not been fully proofread.

२४ ]
 
महाकविबाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क ४ व्याख्या
 
विधानाच्च समानाधिकरणेष्वपि विशेषणेषु अन्यस्य पदार्थस्यार्थे वर्तमानेषु बहु-
व्रीहिविधानात्, संख्यायां विशेषणभूतायां समाहारे च द्विगोविधानात्, नविशेषणे
पर्युदासे नञ्ममासविधानात्, तद्व्यतिरिक्त प्रथमान्ते समानाधिकरणे विशेषणे
कर्मधारयसमासः । अत एवाचार्येण 'कमन्यपदार्थे' इत्यत्र विशेषणपदानुपादाने-
ऽपि सप्तमीविशेषणे बहुव्रीहावित्यत्र विशेषणपदोपादानं कृतं, तत्पुरुषः समाना-
धिकरण:, कर्मधारय इत्यत्र विशेषणवान् इत्येव सिद्धे समानाधिकरणपदप्रयोगः
कृत इति । सर्वेषां समासानां विशेष विशेषण- विशेष्यपदरचितत्वमवगम्यते । प्रत
एव चेह भूतले घटो नास्तीत्यादी भूतलादेर्व्यधिकरणस्यापि विशेषणत्वमुपगतं
वृद्धैः । इयांस्तु विशेषः, समानाधिकरणे नीलोत्पलादौ केवलस्योत्पलशब्दस्य
प्रयोगेपि गुणिनो गुणाव्यभिचाराद् रक्तादौ गुणे प्राप्ते तद्व्यावृत्तेमुख्यत्वेन
नीलादिपदप्रयोगः । स्वरूपप्रतिपत्तिस्तु नुकी, कष्टादौ तु मुख्यत्वेन स्वरूप-
प्रतिप [10a]त्तिः स्वरूपस्येतरध्यावृत्तिरूपत्वात् । व्यावृत्तकत्वं तदभिप्रायेणा-
चार्यस्य समानाधिकरणे विशेषणपदप्रयोगः, इत्यलमन्यार्थप्रवृत्तेनान्यार्थसंरंभेणेति,
व्याकरणं चर्चयति संक्षिप्य किञ्चिदुच्यते-

 
अत्र समासे बहुव्रीही द्वे पदे बहूनि वा पदानि परस्परं विशेषणविशेष्यभूता-
न्यपि समासपदेभ्यः पृथग्भूतस्य पदस्यार्थे विषये विशेषणविशेष्यभावं भजन्तीति
न तद्गुणसं विज्ञानेऽपि नाsव्याप्तिः । ग्रयमर्थ :- नीलोत्पलादी उत्तरपदार्थप्रधान-
त्वात् यथा नीलशब्द: स्वरूपप्रतिपादनपूर्वकं विशिष्टे वर्तते, उत्पलशब्दश्च
रक्ता दिव्यावृत्तं नीलगुणविशिष्टं स्वार्थं प्रतिपादयति । ततश्चोभयपदात्मकमेकं
पदं उत्तरपदार्थप्राधान्येनोभयार्थवाचकं न तथा बहुव्रीही । अपितु, चित्रगुशब्दे
चित्र-गो-शब्दाभ्यां व्यावर्त्तकव्यावर्त्तनीयाभ्यां विशिष्टं विहाय (य), विशिष्टवति
वर्तनादन्यपदार्थविशेषणविशेष्यभावापत्तिः । ननु स्वार्थे अनेक मिति वचनात् द्वयो-
बहूनां वा बहुव्रीहिः, चित्रगुरिति द्विपदो बहुव्रीहिः, सवत्सचित्रगुरिति
चतुःपदः, नाऽत्र बहुत्वस्य कपिञ्जलन्यायेन संकोच:, चतुर्णां पञ्चानामपि
समासदर्शनात् । समानाधिकरणे एवं संख्याया विशेषणत्वम् । पञ्चपूलीत्यत्र
समाहारे द्विगुः । यदा च नञर्थस्य विशेषणत्वं सोऽपि भिन्नः ।
 
T
 
ननु कथं नञो विशेषणत्वं समानाधिकरणत्वं च, उच्यते-निषेधो हि नञर्थः
स च प्रतियोगिनं विना निरूपयितुं शक्यत्वादव्यवस्थितत्वाच्च प्रतिषेध्य धर्मस्य
प्रतीयत इति निषेधो धर्मः । स च धर्मपदश्चेत् निषेधो घटस्येति समानाधिकरणत्वं,
घर्मिपरत्वे तु नीलमुत्पलमितिवत् निषेधो घट इति सामान्याधिकरण्यं,
प्रतश्च घर्मिपरत्वे नञो लुप्तप्रथमाविभक्तिकस्य स्वपदेनाऽविगृहीतस्याऽस्वेतरशब्देन
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy