This page has not been fully proofread.

पद्याङ्क ४ व्याख्या ]
 
मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
[ २३
 
प्राप्तास्तिस्रः सन्ध्या इव । कदाचित् किल कार्यान्तरव्यासङ्गेन सन्ध्यालोपे
प्रबुद्धेन परमेश्वरेण स्तुतास्तिस्रोऽपि सन्ध्या जगदप्यरुणीकृत्य युगपन्मूत्तिमस्य-
उपतस्थिरे परमेश्वरं, अत एव स्मरारिग्रहणं स्मरवदस्य नापि भस्मसान्मा कार्षीत् ।
शूलस्यातिवेगित्वात् प्रहारमदृष्ट्वा सामि निःसृता धारा दृष्ट्वा महिषभीत: सुरै-
र्यमजिह्वाभिरुत्प्रेक्षिताः पश्चाद् दीर्धीभूताः, प्रहारे च दृष्टे स्वास्थ्यमितैर्विष्णुपदी
पदवीभिः, ततो बाहुल्यमितो जगद्व्यापिनीभिः सन्ध्याभिरिति कवेरभिप्रायः ।
 

 
अत्र-
"अन्यथैव स्थिता वृत्तिश्चेत् तस्येतरस्य वा ।
 
अन्यथोत्प्रेक्ष्यते यत्र तामुत्प्रेक्षां विदुर्बुधाः ।" इत्युत्प्रेक्षालङ्कारः ।
 
-
 
-
 
अत्र देव्या स्त्रिशूलस्य च प्राधान्यात् उभयस्यापि यत्समासेन प्राधान्यमस्तं
नीतं तन्न जाघट्टि [9b] इदमत्र तात्पर्यम् – यत् कथञ्चिदपि प्रधानतया विवक्षितं
न तन्नियमेनेतरेण सह समासमर्हतीति, इतरच्च विशेष्यमन्यद्वा वस्तु न तन्त्र
नियमः । अन्यच्च, रक्तस्य धारा रक्तधारा इत्यत्रापि च पष्ठीत्यनेन विहितः
समासः, षष्ठ्यन्तस्य पदान्तरेण समासो वाऽनुपपन्नः, यतः सर्वेषामेव समासानां
विशेष्याणि विशेषणानि चाभिधातु शीलानि यानि पदानि तैनिष्पादितशरीरत्वं
नाम सामान्यं लक्षणं विशेषणविशेष्याणामेव समासः । अन्यथा समर्थतानुपपत्तेः
"समर्थः पदविधिः" इति परिभाषणात् । सामर्थ्याभावात् समास एव न स्यात् ।
विशेषणविशेष्यभावस्य समानाधिकरणव्यधिकरणभेदभिन्नत्वेन द्वैविध्यं,
समानाधिकरणत्वं तु नीलोत्पलमत्र तु नीलशब्दस्य गुणस्य गुणनिवृत्तेः । वैयधि-
करण्यं तु कष्टश्रितं इत्यत्र ग्रामादि यत् किञ्चनाश्रयणव्यावर्त्तनाद् विशेषणत्वम्,
एतेन यदेव समानाधिकरणव्यधिकरणयोर्व्यावर्त्तकत्वेन प्रतीयते तदेव विशेषणं,
एतावता सम्बन्धो नाम समासार्थ: । स च सम्बन्धिनं विना च सम्बोभवीति, इति
कृत्वा समसितपदस्य नीलगुणविशिष्टमुत्पलं वाच्योऽर्थः ।
 

 
ननु "विशेषणं विशेष्येण बहुलम्" इति विशेषणविशेष्यपादोपादानादेवा-
ऽन्यत्र तु समासे कष्टादेविशेषणत्वं श्रितादेविशेष्यत्वं च नास्तीति अवगच्छामो
यतोsलक्षणपदानां अतिव्याप्तिनिवारकत्वं प्रसिद्धं, सम्भवे व्यभिचारे च
विशेषणमनर्थवद् भवतीति वचनात् । अन्यथा, कष्टश्रितादावपि विशेषणसमास-
एव स्यात् । तत्कथं सर्वेषामेव विशेषणविशेष्यपदो[:] परिचितत्वं; उच्यते-विशेषण-
समासः सामान्यरूपः, अन्ये विशेषरूपाः । तत्र सर्वत्र सामान्यप्रवृत्ती यत्र यत्र
विशेषणबाधस्तं तं विषयं परित्यज्य प्रवृत्तौ यत्रैवाबाधित्वं तत्रैव लक्षणस्य चरि-
तार्थत्वम् । तथा च, द्वितीयादिषु व्यधिकरणेषु तत्पुरुषविधानात् अव्ययीभाव-
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy