This page has been fully proofread once and needs a second look.

पद्याङ्क ३ व्याख्या ]
 
मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्ति समेतम्
 
[ २१
 
पातयति । अत्रापि च साऽपि तच्चरणक्षालनं करोति । अनु च, नूनं निश्चितं

नूपुरेण अपि या शोभा न जाता, अनु च, नखानां ज्योत्स्नया च शोभा न

जाता नोत्पन्ना । किंविशिष्टेन त्रयेण, ग्लपितशशिरुचा, ग्लपिता ग्लानिनिं प्रापिता

शशिनो रुक् कान्तिर्यया येन यया च, शुभ्रत्वादेतत्त्रयस्यापि विशेषणम् । भिन्न-

लिङ्गविशेषात् श्लेषोऽपि, अद्भुतता च । एतदुक्तं भवति, तदानीं कृष्णेनाऽपि

महिषेण चरणाग्रलग्नेन या शोभा जाता सा अत्युज्ज्वलेनापि तत्त्रयेण न

जातेत्यर्थः । एकेनापि कृतं कथं हेतुत्रयमुपात्तं, तद्विवरणं पूर्वं पीडनसमये पाद-

तले लग्नः ततोऽतिरभसतो निरसनायोत्पातितो नूपुरदेशमागतः, पश्चात्पतन्न-

खाग्रलग्नः । एवं च स्थानत्रयसंस्पर्शाद्धेतुत्रयस्य साधकतेति ।
 

 
अत्र न जाता इत्यस्य पदस्य एकत्रस्थस्यैव समस्तवाक्यदीपनात् दीपनकम् ।
अलक्त

अलक्त
कमिवेत्यत्रोपमा । अत्रोत्साहस्थायिभावाद्वीवारे प्रस्तुते रतेरुद्दीपनेन

शृङ्गारस्य परितोषं नीतत्वादनौचित्यमिव प्रतिभाति । प्रकरणवर्तिनोचित्यमिव प्रतिभाति । प्रकरणवर्तिनो वीरस्य

शृङ्गारेण न्यग्भावं गमितस्य प्रधानरससम्बन्धनानि (दि) कमनोनौचित्यमेव,

तदुक्तमानन्दवर्द्धनेन-
-
 
विरोधी वाऽविरारोधी वा
 
रसोऽङ्गिनि रसान्तरे ।

परितोषं न नेतव्यस्तेन स्यादविरोधिता ॥ इति,
 

 
तदेवाऽत्र वैपरीत्येनोपलभ्यते । मुख्यो वीरो रसः । प्राप्तिपर्यन्त व्याप्तिशायी

जाह्नव्येत्यादिशृङ्गाररसपोषेण विरसतां नीतः ! अवरुद्धोऽपि परपुष्टो विरुद्धता-

मावहति । विरुद्धवर्णनोदिते नह्यनौचित्येन स्थायी कुञ्जर इव स्वभ्रपातितः

पुनरुत्थातुतुं नोत्सहते इति, अलमिति विस्तरेण । अत्रार्थे महिम्नः सम्मतिः-
-
 
अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् ।
 

प्र[9a] ह्वौचित्यबन्धस्तु रसस्योपनिषत्परे ॥ इति,
 

 
अनया दिशा रससङ्करभेदप्रपञ्चौचित्यं विपश्चिद्भिः स्वयं विचार्यम् ॥३॥

 
सं० व्या० – प्रा--आर्या देवी जयति, किं कुर्व्वती क्षिपन्ती, कं महिषं, कमिव नव-

मिव अलक्तकं, किं कृत्वा पीडयित्वा पादेन क्षिपन्त्यपि पादेनैव अत एव एवकारो-

ऽत्र युक्तः, किकिं रूपं असुरसादाननिः कार्यं, प्रसवो रसस्तस्यादानं ग्रहणं तेन

निःकार्यं निःप्रयोजनं एतदुक्तं भवति यथा अलक्तकं पीडयित्वा रसमादाय कश्चित्

क्षिपति एवं देवी रसभूतान् प्राणान् गृहीत्वा महिषं क्षिपन्ती, पुनरपि किकिं कुर्व्वाणा

आर्या जयति प्रादधाना धारयन्ती तां शोभां पीडयित्वा अलक्तकाद् रसादाने या

रक्तत्त्वलक्षणा भवति किन्तु अलक्तकरसेन कृत्रिमा शोभा इयं तु स्वाभाविकी

चरणस्य, अत एव ज्ञातजाह्नव्येत्यादि --जा
thulakshm Research Acac
ह्नव्या गङ्गया अरुणत्वलक्षणा शोभा न