2023-03-27 20:57:09 by manu_css
This page has been fully proofread once and needs a second look.
ऽऽदानं ग्रहणं, असुरसादानेन निःकार्यं यस्मिन् कर्मणि तद् यथा स्यात्, निर्गतः
कार्यात् निःकार्यः अनादेयः, क्रियाविशेषणं महिषविशेषणं वा । निर्गतः कार्यान्निः-
कार्य:, असुरसादानेन निःकार्यः असुरसादाननिःकार्यस्तं असुरसादाननिःकार्यम् ।
विशेषणस्य विशेष्ये गुणाधानहेतुत्वात् क्षेपणक्रियायाः कश्चन गुणोऽसुरसादान-
निःकार्यरूपेण विशेषणेन नाधीयते ।
पूर्वत्रापरतोषो वा विषयव्याप्तिरेव वा ।
सर्वव्याख्याविकल्पानां द्वयमिष्टं प्रयोजनम् ॥
इति कृत्वा तत्र गुणाधानदर्शनात् । तद्विशेषणतापक्षस्तूपक्षेपः ।
ननु लोकोत्तरवीर्यस्य महिषस्य पादेन क्षेपोऽनौचित्यमावहतीति कथमुक्तं
पादेनैव क्षिपन्तीति, मैवं वादीः । यथा अलक्तकं तत्सारभूतं रसमादाय अवकर -
रूपा लाक्षा निरस्यते तथा सारभूतान् प्राणान् आदाय निर्यासकल्पस्य निरसन-
मेवोचितमिति कवेरभिसन्धिः । प्राणानां सारभूतता च शतपथश्रुतौ "इन्द्रियाणां
स्वस्वप्राधान्याभिमानसंवादे चक्षुराद्युत्क्रमणक्रमेण यदा प्राणा उदक्रामन् तदा
तैर्विना सर्वेषामवकरप्रायत्वात्" प्रत्यपादि ।
किं कुर्वाणा भगवती, तां शोभामादधाना । क्व, अर्थाच्चरणयोः । 'तां'
इति सर्वनाम्नः प्रसिद्धपरामर्शः प्रकृतानुसन्धानं चेति व्यापारद्वैविध्यात्, कामित्य-
पेक्षायां प्रकृतमनुसंदधाति । या शोभा भगवत्याश्चर[86b]णयोः जाह्नव्या न
जाता। कथम्भूतया जाह्नव्या, अनुनयपरहरक्षिप्तया अनुनयनमनुनयः, अनुनय
एव परं साध्यं यस्य स अनुनयपरः स चासौ हरश्च तेन क्षिप्ता तया । अत्र
हरक्षिप्तयेति "कर्तृकरणे कृता बहुलम्" इति समासो हरस्य सर्वोत्कृष्टत्वेन
कमपि प्रभावातिशयं दर्शयति, न गङ्गायाः । अथ चैवं व्याख्याने हरतीति हर
इति सर्वोऽपि यस्माद् विभेति सोऽपि अनुनयपरः, इति । हरानुनयवशाद् यद्
भगवत्याः सौभाग्यातिशयकथनं तद् हरस्य समासे निमीलितम् । हरेण क्षिप्तयेति
भवितव्यम् । हरस्य प्राधान्ये विवक्षिते क्षिप्तया सह समासे विधेयाऽनूद्य यो
विपर्यासे न्यग्भावः कृतः स चाऽयुक्तः । तथा चोक्तम्--
पदमेकमनेकं वा यद्विधेयार्थमागतम् ।
न तत्समासमन्येन न चाप्यन्योन्यमर्हति ॥१॥
तस्मादस्मादृशां महाकविप्रयोगा अविचारणीया इति । न पौरो भाग्यमा-
सेव्यते । किं कुर्वत्या जाह्नव्या, क्षालयन्त्या अर्थात् देव्याश्चरणौ, रक्ते वस्तुनि
शुभ्रधौते काऽप्यभिख्या भवति, अयमाशयः, स्त्रीणां सौभाग्यस्य एतावत्येव परा-
काष्ठा यत् सपत्नीसन्निधौ भर्त्ता चरणयोः पतति । तत्रापि च सपत्नीमपि

पेक्षायां प्रकृतमनुसंदधाति । या शोभा भगवत्याश्चर[8