This page has been fully proofread once and needs a second look.

T
 
२० ]
 
महाकविबाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क ३ व्याख्या
 
ऽऽदानं ग्रहणं, असुरसादानेन निःकार्यं यस्मिन् कर्मणि तद् यथा स्यात्, निर्गतः

कार्यात् निःकार्यः अनादेय:यः, क्रियाविशेषणं महिषविशेषणं वा । निर्गतः कार्यान्नि:निः-

कार्य:, असुरसादानेन निःकार्य:यः असुरसादाननिः कार्यस्तं असुरसादाननिःकार्यम् ।
अत्र

विशेषणस्य विशेष्ये गुणाधानहेतुत्वात् क्षेपणक्रियायाः कश्चन गुणोऽसुरसादान-

निःकार्यरूपेण विशेषणेन नाधीयते ।
 

 
पूर्वत्रापरतोषो वा विषयव्याप्तिरेव वा

सर्वव्याख्या विकल्पानां द्वयमिष्टं प्रयोजनम् ॥

 
इति कृत्वा तत्र गुणाधानदर्शनात् । तद्विशेषणतापक्षस्तूपक्षेपः ।
 

 
ननु लोकोत्तरवीर्यस्य महिषस्य पादेन क्षेपोऽनौचित्यमावहतीति कथमुक्
तं
पादेनैव क्षिपन्तीति, मैवं वादीः । यथा अलक्तकं तत्सारभूतं रसमादाय अवकर -

रूपा लाक्षा निरस्यते तथा सारभूतान् प्राणान् आदाय निर्यासकल्पस्य निरसन-

मेवोचितमिति कवेरभिसन्धिः । प्राणानां सारभूतता च शतपथश्रुतीतौ "इन्द्रियाणां

स्वस्वप्राधान्याभिमानसंवादे चक्षुराद्युत्क्रमणक्रमेण यदा प्राणा उदऋाक्रामन् तदा

तैर्विना सर्वेषामवकरप्रायत्वात्" प्रत्यपादि ।
 
कि

 
किं
कुर्वाणा भगवती, तां शोभामादधाना । क्त्र, अर्थाच्चरणयोः । 'तां'

इति सर्वनाम्नः प्रसिद्धपरामर्शः प्रकृतानुसन्धानं चेति व्यापारद्वैविध्यात्, कामित्य-

पेक्षायां प्रकृतमनुसंदधाति । या शोभा भगवत्याश्चर [8b6]णयोः जाह्नव्या न

जाता । कथम्भूतया जाह्नव्या, अनुनयपरहरक्षिप्तया अनुनयनमनुनयः, अनुनय

एव परं साध्यं यस्य स अनुनयःयपरः स चासौ हरश्च तेन क्षिप्ता तथा । अत्र
या । अत्र
हरक्षिप्तयेति "कर्तृ करणे कृता बहुलम्" इति समासो हरस्य सर्वोत्कृष्टत्वेन

कमपि प्रभावातिशयं दर्शयति, न गङ्गायाः । अथ चैवं व्याख्याने हरतीति हर

इति सर्वोऽपि यस्माद् बिविभेति सोऽपि अनुनयपरः, इति । हरानुनयवशाद् यद्

भगवत्याः सौभाग्यातिशयकथनं तद् हरस्य समासे निमोमीलितम् । हरेण क्षिप्तयेति

भवितव्यम् । हरस्य प्राधान्ये विवक्षिते क्षिप्तया सह समासे विधेयाऽनूद्य यो

विपर्यासे न्यग्भावः कृतः स चाऽयुक्तः । तथा चोक्तम्-
-
 
पदमेकमनेकं वा यद्विधेयार्थमागतम् ।
 

न तत्समासमन्येन न चाप्यन्योन्यमर्हति ॥ १॥
 

 
तस्मादस्मादृशां महाकविप्रयोगा अविचारणीया इति । न पौरो भाग्यमा-

सेव्यते । किकिं कुर्वत्या जाह्नव्या, क्षालयन्त्या अर्थात् देव्याश्चरणी, रक्तणौ, रक्ते वस्तुनि

शुभ्रधौते काऽप्यभिख्या भवति, श्रयमाशयः, स्त्रीणां सौभाग्यस्य एतावत्येव परा-

काष्ठा यत् सपत्नीसन्निधौ भर्त्ता चरणयोः पतति । तत्रापि च सपत्नीमपि
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy