This page has been fully proofread once and needs a second look.

मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्ति समेतम्
 
[ १६
 
सं० व्या०--२. हुङ्ङ्कारे इति ॥ सा शिवा शिवपत्नी वो युष्माकं शिवं श्रेयः

करोतु विदधातु इत्येवं प्रज्ञानादज्ञानत एव यस्याः चरणोऽत्ङ्घ्रिर्महिस्यासून्

प्राणानहार्षीत् हृतवान् । किंभूतञ्श्चरणः स्कन्धन्यस्तः, कया विन्ध्याद्रिबुद्ध्या विन्ध्य-

श्
चासौ प्रद्रिश्च [ तद्बुद्ध्या] विन्ध्याद्रिबुद्ध्या, कोऽर्थः विन्ध्योऽयं पर्वतः अस्मि-

न्निवास: [कर्तव्य:] इति बुद्ध्या धिया स्कन्धे न्यस्तोऽङ त्ङ्घ्रिरिति प्रत एव महिष
-
स्याज्ञानम् ; किं कुर्व्वति स्कन्धे निकषति निकर्षणं कुर्वति, कया विन्ध्याद्रिबुद्ध्या,

शा (श्या ) मत्वात् देवीपादस्य तं प्रति महिषस्यापि विन्ध्याद्रिबुद्धिरुत्पन्नेति, यतश्च

निकषतीत्युक्तं अत एव निकर्णेन वालनेन नूपुरस्य पादाभरणस्यापि सिं (शि शिं) -
-
जितैः शब्दितैः महिषस्य हुङ्कारे नुदति युद्धाय प्रेरयति जिते सतीत्युक्तम् । कीदृशे

हुङ्कारे न्यक्कृतोदन्वति न्यक्कृत उदन्वान् उदन्वद्घोषो येनेति विग्रहः, कि-

मुक्तं भवति न्यक्कृत समुद्रघोषो युद्धाय नुदन्नपि महिहुङ्कारो नूपुर शिज्ञ्जितै-

र्
जितत्वात् देव्या नवमद्रितश्च हेतौ महिषस्य अज्ञानमन्यथापीत्याह 'श्लिष्यच्छृङ्ग-

क्षतेऽपि क्षरदसृजि निजालक्तक भ्रान्तिभाजि' इति, श्लिष्यत् शृङ्गं तस्य क्षतं

व्रणं श्लिष्यच्छृङ्गक्षतं क्षरदसृक् [प्रसरत् ] रुधिरं क्षरदसृक् निजश्चासावलक्त-

कश्च निजालक्तकः तस्य भ्रान्तिस्तां भजतीति निजालक्तकभ्रान्तिभाक् तस्मिन्

श्लिष्यच्छू छृङ्गक्षतेऽपि क्षरदसृजि निजालक्तक भ्रान्तिभाजि सति देव्या महिषस्या-

ज्ञानमपि एवमुपन्यस्तहेतुत्रयादज्ञानं संवृत्तं तत एव तस्याश्चरणो महिषस्यासून्

अहा
र्षीत् इति समुदायार्थः ॥ २ ।
 
पद्याङ्क ३ व्याख्या ]
 
W
 

 
पूर्वस्मिन् श्लोके साधनान्तरनिरपेक्षेण चरणेनैव महिषस्य प्राणवियोजनं

वर्णितम् । सा स्तुतिर्भू तार्थवादो वेति विकल्प्य भूतार्थवाद एवायमिति द्रढयन्

उपश्लोकयति-
-
 
-
 
जाह्नव्या या न जाताऽनुनयपरहरक्षिप्तया'[^१] क्षालयन्त्या
 

नूनं नो नूपुरेण ग्लपितशशिरुचा ज्योत्स्नया वा नखानाम् ।

तां शोभामादधाना जयति नवमिवालक्तकं पीडयित्वा

पादेनैव क्षिपन्ती महिषमसुरसादाननिःकार्यमार्या ॥३॥
 

 
कुं० वृ०--आर्या भवानी जयति सर्वोत्कर्षेण वर्त्तते । किं कुर्वती, महिषं

पादेनैव क्षिपन्ती । किं कृत्वा, पीडयित्वा विमृद्य । कमिव, नवं अलक्तकमिव । कथं

यथा भवति, असुरसादाननिः कार्यं यथा भवति, असव एव रसोऽसुरसः तस्या-

 
-----------------
[^
] का० -जातानवमपुरहरक्षिप्तया ।
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy