This page has been fully proofread once and needs a second look.

T
 
महाकविबाण-विरचितं चण्डीशतकम् [ पद्याङ्क २ व्याख्या
 
लक्षावगमनशक्तिलक्षणारूढे: प्रयोजनाद् वा मुख्यार्थबाधे तदासन्नत्वे च यत्राऽपरो-
s

र्थो लक्ष्यते सा लक्षणा' । मुख्यार्थबाघोधोऽनुपपत्तरनुपयोगाच्च । तत्र मुख्यार्था-

सन्नत्वं पञ्चधा । तदुक्तम्-
१८ ]
 
-
 
अभिधेयेन सम्बन्धात् सादृश्यात् समवायतः ।

वैपरीत्यात् क्रियायोगाल्लक्षणा पञ्चधा मता ॥
 

 
अत्र अभिधेयं मुख्यार्थः, तेन सह सम्बन्धो यथा न्यक्कृतोदन्वतीति अत्र

उदन्वच्छब्दाभिधेयस्य मेघस्य घोषरूपतानुपपत्तेर्मु ख्यार्थबाधे योऽयं जन्यजनक-

भावात्मा सम्बन्धः तदाश्रयणेन उदन्वच्छन्ब्दो घोषं लक्षयति । उदन्वदेकार्थसमवेत-

गाम्भोभीर्यमहत्त्वदुराकलनीयत्वादिप्रतिपादनं प्रयोजनं व्यङ्ग्यम् । न हि तद्

गाम्भीर्या(र्यं) उदन्वन्नादरत्यादिशब्दान्त रैः स्पष्टं शक्यते । पुनः किम्भूते हुङ्कारे,

महति त एव समुद्रघोषययौचितं (स्यौचित्यम्), अन्यच्च, 'क्षरदसृजि श्लिष्यच्छृङ्ग-

क्षतेऽपि निजालक्तकभ्रान्तिभाजि' सति, 'अपि' - -शब्दो हेत्वन्तरपरिग्रहार्थ: । क्षरत्

स्रवत् असृग् रुधिरं यस्मात्तत्तथा तस्मिन् । श्लिष्यत् घर्षत् शृङ्गं यत्र तत् श्लिष्य-

च्छृङ्गं, श्लिष्यच्छृङ्गं च तत् क्षतञ्च व्रणं तत्तथा तस्मिन् । निजश्चासावलक्तकश्च

निजालक्तकः तस्य भ्रान्ति:तिः तां भजति इति निजालक्तक भ्रान्तिभाक् तस्मिन्

निजालक्तकभ्रान्तिभाजि सति, इत्युक्तं भवति ; प्रहारवशात् महिषस्कन्धे क्षरद्-

रक्तं क्षतं विद्यते, श्लिष्यच्छृङ्गवशात् तस्मिन् रक्ते परितो विलुलिते सति, देव्या

मच्चरणालक्तकोऽयं विन्ध्ये लग्न इति भ्रान्तिरासीत् न तु महिषबुद्धिः । रोषाकुलि-

तेन मनसा पुरोऽपि न दृष्टः ।
 

 
ननु कथं देव्या इयती भ्रान्तियत् समीपवर्त्यपि न दृष्ट: ? उच्यते, मनोऽनव-

स्थानात् सन्नर्थो न दृश्यते, भ्रष्टधार्यानुपलब्धेः [8a] । तदुक्तम्
 
--
 
अतिदूरात् सामीप्यादिन्द्रियघातात्मनोऽनवस्थानात् ।
 

<error>
सौष्माद्</error><fix>सौक्ष्म्याद्</fix>व्यवधानादभिभवात् समानाभिहाराच्च ॥ इति,
 

 
अन्यच्च, किम्भूते स्कन्धे, निकषति सति, निकषो नाम सुवर्णपरीक्षाऽश्मा,

'निकषो हेमलेखे' ति प्रसिद्धेः । निकष इवाचरतीति निकषति, निकषतीति निक-

षन् तस्मिन्निकषति । किमुक्तं भवति, महिषस्य कृष्णे स्कन्धे रक्तिमवशान्निकषो-

पमा । न्यकुक्कृतोदन्वतीत्यत्रातिशयोक्तिरलङ्कारः । निजालक्तकेत्यत्र भ्रान्तिमान-

लङ्कारः । निकषतीत्यत्रेवादेर्लोपे समासे सति उपमा । अत्र तु भ्रान्तिमानुत्प्रेक्षा

उपमया प्रादुर्भूतं तदाश्रयेण भ्रान्तिमाने च सचेतसां चमत्कृतिनिमित्तमित्येतयो-

रङ्गाङ्गिभावात् सङ्करः ॥
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy