This page has not been fully proofread.

पद्याङ्क २ व्याख्या ]
 
मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
[ १७
 
उद्यत्कोपकेतून्, कोपे केतुः स्वस्य चिह्नं कोपकेतुः, उद्यत् आविर्भवत् कोपके तुर्येषामिति
विग्रहः, कथं प्रकृति अवयवान् प्रापयन्त्या इत्येवं पूर्वप्रकारेण तदुच्यते, मा भांक्षी-
विभ्रमं भ्रूरित्यादि, अयं ना पुरुषो मायामहिषरूप: प्राण्येव, न च प्राणी, अत्र
पक्षे एव शब्द: स्वयोगस्यावस्थापकः, यथा शङ्खः पाण्डुर एवेति अथवाक्षेपे न तु
नायं प्राणी अन्यः कश्चिदपि तु; किमुक्त भवति, जन्तुमात्रोऽयमस्मत्पदतलघातसाध्यः
तल्कि युष्माभिरसमय एव वृथा कोपात् विकृतिरास्थीयते, स्वस्था भवन्तु, भवन्त्वत
इत्यभिप्रायेण देवी स्वभ्र प्रभृतीनवयवान् प्रत्येकमामन्त्र्य क्रियया युक्ति, तद्यथा हे
भ्रूः ! मा भांक्षीविभ्रमं, विभ्रमं भङ्गं मा कार्पास्त्वम्; विमो हि भरतशास्त्रे
विशतिविधः लीलाभेद उत्कट: । अधर ! अधरोष्ठ ! विधुरता केयं, किमिदं वैधुर्य
प्रस्फुरणं, आस्य ! मुख ! रागत्वं अस्य क्षिप, पाणे ! हस्त ! कलहश्रद्धया कलहस्ये-
च्छया कि त्रिशूलं ऋविशेषं कलयसि इति ॥१॥
 
!
 
पूर्वस्मिन् पद्ये महिषस्य माहात्म्यातिशयं वर्णयित्वा साम्प्रतं[7b]भगवत्याः
प्रभावप्राचुर्यं प्रकटयन् द्वितीयं श्लोकमवतारयति-
हुङ्कारे न्यक्कृतोदन्वति महति जिते शिञ्जितैर्नूपुरस्य,
 
श्लिष्यच्छृङ्गक्षतेऽपि क्षरदसृजि निजाऽलक्तकभ्रान्तिभाजि ।
स्कन्धे विन्ध्याद्रिबुद्धया निकषति महिषस्याऽऽहितोऽसूनहार्षी-
दज्ञानादेव यस्याश्चरण इति शिवं सा शिवा' वः करोतु ॥ २ ॥
 
कुं०वृ० – सा शिवा भवानी वः युष्माकं शिवं करोतु कल्याणं विदधातु । सा
का, यस्याश्चरण एव महिषस्याऽसून् प्राणान् श्रहार्षीत् जहार । एवकारोऽत्र
साधनान्तरव्यावृत्यर्थः । मह्यां शेते इति महिषः, पृषोदरादित्वात् साधुः । कथं इत
हेतुभि: प्रज्ञानात् स्कन्धे ग्रहित: अर्थान्महिषस्य, कया, विन्ध्याद्रिबुद्धया
.
विन्ध्यश्चासावद्रिश्च विन्ध्याद्रिः तस्य बुद्धिस्तया । श्रयं महिषस्कन्धो न विन्ध्याद्रिः
अनेन स्कन्धस्य महत्त्वं देव्याश्च अनायासो द्योत्यते । इतीति किम्, महिषेण यो
हुङ्कारो व्यधायि तस्मिन् नूपुरस्य शिञ्जितैजिते सति । कथम्भूते हुङ्कारे,
'न्यक्कृतोदन्वति' न्यक् नीचैः कृत उदन्वान् समुद्रो येन । "उदन्वान् उदधौ च"
इति, उदनुभावो मतौ निपात्यते, उपचारवृत्त्या उदन्वत् घोषोऽपि तच्छब्देनो-
च्यते । अत्र शब्दस्य मुख्यलाक्षणिकव्यञ्जकत्वेन त्रैविध्ये लक्ष्याश्रितत्वाल्लक्षणा-
व्यापारवत्त्वाच्च लाक्षणिकत्वम् । 'लक्ष्यलक्षकस्य लाक्षणिकस्य लक्षनिष्ठो व्यापारो
 
१. शिवं, इति प्रती ।
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy