Proofing

✦

This page has been fully proofread once and needs a second look.

पद्याङ्क २ व्याख्या ]
 
मेदपाटेश्वर
कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
[ १५
 
स्थितां भाष्यकृदनत्र युक्त्येत्यादि मीमांसाचार्यसम्मताच्च भगवता बादरायणेनाऽपि

ब्रह्मणो विषयत्वाभावात् प्रमाणागम्यत्वाभावमाशंक्य निश्वसितमेतस्य भवतो

भूतस्य यद् ऋग्वेदो यजुर्वेद इत्यादि विषयवाक्यात् शास्त्रं यो नित्यत्वादिति सूत्रस्य,

शास्त्रं यो निर्गमकं यस्य शास्त्रस्य यो निष्कारणमिति वा इति वर्णकद्वयेन व्याख्या-

नात् प्रमाणगम्यत्वं निरणायि । मीमांसकैरपि नानादेशेनैक दैविक देवो यागानां स्यात्

सम्प्रदानं विरोधादित्यादेः, अर्थवादानामपि च विधिशेषत्वात् स्वार्थे प्रामाण्या-

भावादित्यादेश्च तद्धितेन चतुर्थ्या वा मन्त्रवर्णेन चेप्ष्यते । देवतासङ्गति रित्यादेश्च

पर्यालोचनया देवतानां मन्त्रवर्ण मिथ (थ्या) त्वमाशंक्य अवशिष्टस्तु वाक्यार्थ इति

मन्त्राधिकरणे मन्त्राणां न हि कुठारादिवत् मन्त्राःरा: स्वरूपेण प्रमाणं किन्तु अर्थ-

प्रकाशकत्वाभावादप्रामाण्यापातान्न प्रकाशत्वेन । अर्थवावदानामपि त्रैविध्ये गुण-

वादानुवादयोः स्वार्थे प्रमाभावात् । भूतार्थवादस्य स्वार्थे प्रामाण्यात् । "वायव्यं

श्वेतमालभेत" इत्यादि विधौ प्रामाण्यात् । "आसंवत्सरादस्य गृहे रुदन्ति" इत्यादि

रजतदाननिषेधात् । अत्र : वर्त्तमानयोर्देवत। ताविग्रहयो:योः प्रामाण्यप्रतिपादनात्

भूतार्थवादस्याऽप्रामाण्ये स्वर्गादीनामपि तत्प्रतिपादितत्वेनाऽप्रामाण्यात् । विधेः

फलांशाभावात् अप्रामाण्यप्रसङ्गे पुरुषा न प्रवर्त्तेयु: । फलविषये च प्रामाण्यं,

देवताविषये न तत्कथं काकैर्भक्षितम् । अथार्थवादानां पददैकवाक्यता न वाक्यंयैक-

वाक्यता इति चेत् ? अयमपि सिद्धान्तो विधेः फलाभावेन निरस्तः ।
 

 
किञ्चान्वयचातुर्यं आयुष्मता लभेत इत्यस्य विशेषणतां विशेष्यतां वा

अभजमानं वायुरिति पदं तदैकवाक्यतां प्राप्नोतीत्येवमादियुक्त्या विग्रहवती देवता

ऽस्तीति पक्षः कक्षीकृतः । भवतु नाम या काचन देवता, तथापि शक्तिसद्भावे

किमायातं ? उच्यते--दृष्टाग्निनिं अङ्गुलिसंयोगादिहेतु हेतुसाकल्ये प्रतिबन्धक मित्रादिना

यदग्न्यादिना दाहादिकार्याऽनुपपत्तिः, उत्तम्भकमन्त्रादिना च यदुद्भवे तत्कार्योसत्पत्तिः

तदग्न्यादिगतमदृष्टं शक्तिरिति वा । सर्वभावानां येयं प्रतिनियत कार्यकारणभाव-

व्यवस्था सर्ववायुविवादसिद्धोपलभ्यते । (7a) पटे तन्त्वादिकारणं न मृदादिः ।
मु

मृ
दादिरेव घटादे: कारणं न तन्त्वादिरित्यादिकाऽतीन्द्रिय कारणसमवेतोऽतिशय-

शक्तिरिति । सर्वं च पटादिकार्यं प्रायेण समवाय्यसमवायिनिमित्तकारणानुविधा-

यितया युगपदुपलभ्यते, इति कारणत्रयेपि तत्कार्यानुकूला शक्तिरेकैवानुमीयते,

एकापि स्वाश्रयेषु कार्यसमवायिवत् प्रत्यासत्तिव्यवहितव्यापारविवक्षाभेदात्, सम-

वाय्यसमवायिनिमित्तकारणभेदेन त्रिविधा व्यपदिश्यते । सा च सर्वासु वह्नितन्तु-

मृदादिषु व्यक्ताव्यक्तदाहादिकार्यजनकत्वात् नित्यंयैकत्वे जातिवदवसेया । अन्यथा

एकस्य शक्त्यभावात् सर्वेषां च शक्त्याश्रयाणां मेला ऽसम्भवात् । एकस्माद्द्वाभ्यां

त्रिभ्यश्चतुरादिभ्यो वा कार्यानुपपत्तिप्रसङ्गः, इत्यादि योयौक्तपक्षं:षैः शक्तिवादे
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy
 
T