2023-03-27 20:52:43 by manu_css
This page has been fully proofread once and needs a second look.
'एकस्य च ग्रहे न्यायदोषाभावादनिश्चयः ।' इति,
एवं अलङ्कारे निर्णीते व्यङ्ग्यं निर्णीयते । तत्र प्रापयन्त्येवेत्युत्प्रेक्षया स्वस्था
भवन्तु, क्षणेनाशु क्षयं करिष्यामीति व्यज्यते । 'मा भांक्षी'रित्यादिवस्तुना च
भवन्तस्तिष्ठन्तु, ममैवाऽयं वध्य इति वस्तु व्यज्यते । इत्यादि विस्तरभीरुभिर्न
प्रपञ्च्यते । अत्र च--
"दीप्त्यात्मविस्तृतेर्हेतुरोजो बीजरसस्थितिः" । इति,
ओजो गुणः । अत्र च ओजःप्रधानत्वात् यद्यपि गौडीया रीतिः तथाऽपि
असमस्तपदेति कृत्वा वैदर्भीति मन्तव्यम् । यतः--
अस्पृष्टा दोषमात्राभिरनल्पगुणगुम्फिता ।
विपञ्चीस्वरसौभाग्या [6a] वैदर्भीरीतिरिष्यते ॥
इति तल्लक्षणात् । अनु च सङ्ग्रामे वैदर्भ्यामपि ओजो न दोषाय इति । तथा
चोक्तम्--'यद्यपि गुणपरशतघटनादयः तथापि क्व वाच्यप्रबन्धानामौचित्येन
क्वचिद् 'रचनावृत्तिवर्णानामन्यथात्वमपीष्यते' इति ।
रसस्तु रतिर्देवादिविषया इति, रते: स्थायिभावित्वे व्यभिचारित्वं देवतास्तुति-
विषयः । शृङ्गारोऽपि वीरपर्यवसाय्य अयमासमाप्तिमनुस्यूतो वेदितव्यः । विशेष-
तोऽत्र युद्धसक्रोधवाक्यपरुषोक्तिमत्सरादिविभावैः भृकुटीरक्तनेत्रत्वकपोलस्फुरणाद्यै-
रनुभावैरमर्षावेगौग्र्यचापलाद्यै: सञ्चारिभिर्व्यक्तः । क्रोधस्थाद्भावो रौद्रो रसः ।
आजि वीरश्च, उत्साहस्य संसा(चा)रित्वात् अनभिव्यक्तोऽपि वीरेण सङ्करः
क्रोधस्य बोद्धव्यः ।
ननु भावस्य व्यभिचारेण स्थायित्वात् कथं उत्साहस्थायी वीरोऽत्र ? मैवं
व्यभिचारिणः सन्तो विद्युत्क्षणिकविद्योताः स्युः, स्थायिनश्च स्थिराः स्युरिति ।
उत्साहो रसद्वये द्विरूपो भवति । अविभावित्वात् स्थायी निसर्गक्षणिक इति चेत् ?
न, संस्काररूपेण स्थाय्यपि स्यात् । तदुक्तम्--
तत्तिरस्कृतसंस्काराश्चान्यान्यस्थैर्ययोगिनः ।
अ[।]विर्भावतिरोभावधर्माणश्चित्रयन्ति तम् ॥
अपि अविस्मयाऽसम्मोहाऽविषादपराक्रमणशक्तिप्रतापप्रभुशक्तिदुर्द्धर्षपटुसैन्य-
तादिविभावैर्गर्वाद्यैश्चानुभावैः औग्र्यावेगरोमाञ्चाऽमर्षधृत्यादिभि: सञ्चारिभिर-
भिव्यक्तत्वात् ज्ञेयोऽपि स तूत्तमपुरुषेषु उत्साहस्थायिभावो भवत्येव । एवमिहाप्य-
नुग्राह्यानुग्राहकभावेन रससङ्करोऽसामाजिकरसनीयतामातनोति । तत्स्वरूपम्--