This page has been fully proofread once and needs a second look.

एतावता अत्रापि व्युत्क्रमस्य क्रमयोजनं पूर्ववत् । एतावता 'क्रों' इति अंकुशबीजं
जातम् । पुनः किंविशिष्टा भ्रू:, अर्द्धमात्रारूपा । तदुक्तम्--
'अर्द्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः ।' इति,
 
यथा च--
 
'या मात्रा त्रपुषीलतातनुलसत्तन्तूस्थितिस्पर्द्धिनी ।' इति,
 
एभिस्त्रिभिर्बीजै: पाशाङ्कुशसम्पुटिता भुवनेश्वरी जातेति । यथा न्यास:--आं
ह्रीं क्रों’ इति मनुः सम्पन्नः । किं विशिष्टं क्षीर्विभ्रमं, अयं शुभावहम् । पुनः किं-
विशिष्टं 'आस्यास्यरागं', अस्यन्ते इति अस्याः, आभिमुख्येन अस्याः आस्याः कामाः
तेषां आस्यं मुखं तत्र रागो यस्य स तथा तम् । भक्तेभ्योऽभीष्टकामदमिति यावत् ।
पुन: किंविशिष्ट: 'पाणे' पणनं पाणः, घञन्तः, "पण स्तुतौ" इति विषये इत्यर्थः ।
'प्राण्येवनायं', अणनं अणः, प्रकृष्टोऽण: प्राणः, प्राणो विद्यते ययोस्तौ प्राणिनौ
यौ अंकाररेकार (अकारेकार) वाच्यौ हरिहरौ प्रकृष्टान् शब्दान् कुर्वाणौ तौ वनमिव
गेहमिव प्रतीति प्राण्येवनायस्तम् । अथ तैर्वनमिव ते अय्यते प्राप्यते, किमुक्तं भवति,
स्तुतिविषये सुष्ठूक्ती हरिहरौ प्राप्य कृपापरा सती यथा गेहे निवासः क्रियते तथा
तत्र सुखं निवसतीत्यर्थ: । एतत् ह्रीं इति बीजविशेषणम् । कया अवयवान्
प्रकृतिं प्रापयन्ती 'कलहश्रद्धया', 'कलह समरशोभयोः' इत्यनेकार्थे । शोभा-
वाञ्छया यावता क्रमयोजितेषु बीजेषु बीजात्मकं शरीरं शोभाढ्यं भवतीत्यर्थः ।
पुनः किंविशिष्टं, क्षीर्विभ्रमं, 'किंत्रिशूलं अकिञ्चित्करं त्रिशूलं यत्र स तं तथा ।
त्रिशूलग्रहणं सर्वप्रहरणोपलक्षणार्थं, यत्साध्यमनेन साध्यते तत्सर्वैरपि साधनैर्न-
शक्यत इत्यर्थः । किम्भूता देवी, 'उद्यत्का' उद्यन् क इति आत्मप्रकाशो यस्याः सा
तथा । "कः स्यादात्मप्रकाशे" इत्यभिधानकोशे । किम्भूतान् अवयवान्, 'उपकेतून्'
उकार-पकार-वाच्याभ्यां मन्मथपद्मनाभाभ्यां केतुः द्युतिर्येषु । केतुरिति द्युतिनाम-
सुपठितः । एतदुक्तं भवति, कामबीजं क्लीं, हरिबीजं श्रीं, ग्राभ्यां शोभत इति यावत्,
एतावता क्लीं श्रीं इति बीजाभ्यां सम्पुटितं बीजत्रयं जप्तव्यमिति केषाञ्चित्
सम्प्रदायः । किम्भूतं अंहः, 'मरुदसुहृत्' सुखेन ह्रियत इति सुहृत्, न सुहृत्
असुहृत्, मरुतः देवास्तैरपि हर्त्तुं न शक्यत इति यावत् । पुनः किंभूतं, असून् उपलक्ष्य
वर्त्तमानम् । पुनः किंभूतं, 'संहरं' सम्यक् हरणशीलं असूनपीत्यर्थः । संहरमिति
पचाद्यजन्तम् । पुनः किंभूतमंहः, 'नम्' नमतीति नम् । प्रह्वत्वे क्विबन्तः । किमुक्तं
भवति, यत् अंहः सुरैरपि नाशयितुं न शक्यते तत् भगवतीकृपया प्रह्वीभूतं सत्
यातीत्यर्थः । पुनः किंभूतं, 'कलयसि' कलस्य भवस्य नाशाय यसः प्रयत्नो यस्य विद्यते
तत्तथा । "यसु प्रयत्ने" शाकपार्थिवादित्वान् मध्यपदलोपी समासः । यथा मशकार्थो