2023-03-27 20:50:42 by manu_css
This page has been fully proofread once and needs a second look.
'आक्षेपं च समाधानं कृत्वा वादान्तराणि तु ।
वितथीकृत्य या व्याख्या टीकां तामाहुरुत्तमाम् ॥'
इति टीकालक्षणत्वात् पूर्वपाठशोधनचिन्ताऽनुचितेति न वाच्यम् । तथा
चोक्तं व्याख्यानकृद्भिस्तल्लक्षणम्--
'पदच्छेदः पदार्थोक्तिविग्रहो वाक्ययोजना ।
आक्षेपश्च समाधानं षोढा व्याख्यानलक्षणम् ॥' इति,
अथ मन्त्रोद्धारप्रकारेण किञ्चिदर्थान्तरं यथा, तत्र मन्त्रार्णप्रकाशनाय
क्लिष्टेऽपि पदच्छेदे मयि कृपापरैः सद्भिर्नोद्वेगः कर्त्तव्यः ।
प्रायेणामृतमव्यक्तं व्यक्तविषमितस्ततः ।
क्षुण्णाक्षुण्णत्वतः स्तोत्र-पन्थानौ सुगदुर्गमौ ॥
यथा 'उ' इति सम्बोधने, देवी भुवनेश्वरी वः युष्माकं, अंहः पापं मुष्यात् । किं-
विशिष्टा देवी, 'ह्रि' हकार-रेफ-इकारवाच्या सदाशिवमाधवब्रह्मरूपा ।
"सदाशिवो हकारः स्यात् इकारो माधवः स्मृतः । रेफो रजो गुणो ब्रह्म" इत्यने-
कार्थध्वनिमञ्जर्याम् । अथ हकाररेफेकारैः सोमसूर्याग्निवर्णरूपात्मिका हकारा-
दिषु सोमादिक्रमाभावात् कलनातीतत्वं द्योतितम् । पुनः किम्भूता, मूर्द्धनि वर्त-
माना सती, 'अनि' जीवे इति जीवस्थाने हृदये अस्ता--आरोपिता। अनिति
प्राणितीत्यन् क्विबन्तः सर्गः, आङुपसर्गः । व्यवहितो वा आस्तेति ध्यानार्थं हृदये
आनीता । पुनः किंविशिष्टा, इति अवयवान् मन्त्रबीजार्णावयवान् क्षीर्विभ्रमं
प्रकृतिं प्रापयन्ती, एवेत्यवधारणे । "प्रकृतिः स्वभावे योनौ च" इत्यनेकार्थे ।
वीनां पक्षिणां भ्रमो यस्मिन्निति विभ्रमः । आकाशे हकारः । क्षीर्भिरुपलक्षितो
विभ्रमः क्षीर्विभ्रमः तम् । "क्षकारो व्यापि ब्रह्म" इत्यागमनिघण्टौ । ‘अं
ब्रह्मेति च’ मातृकानिघण्टौ, अं एतावता अनुस्वारः सम्पन्नः । 'ई' इति शान्ति-
कला, ईकारः । 'र्' इति रेफः । एवं हकाररेफेकारानुस्वारैः कृत्वा 'ह्रीं' इति
बीजं जातम् । तदुक्तं--'घनवर्त्मचूर्ण गतिशान्तिबिन्दुभिः कथितः । परप्रकृति-
वाचको मनुरि’ति । अस्य च मनोः सर्वस्य मन्त्रजातस्य सर्वस्य च विश्वस्यादिका -
रणत्वात् प्रकृतित्वम् । अथ क्षीर्विभ्रममिति व्युत्क्रमस्थानात् अवयवान् प्रकृतिं-
स्वभावं प्रापयन्ती, क्रमेण योजयन्ती । किविशिष्टं विभ्रमम्, 'माभाम्' मकारेण
युक्त 'आ' [इति] 'मा' तेन भातीति स तथा । एतावता पूर्वं आं इति पाशबीजं
जातम् । पुनः किंविशिष्टा, के व्यञ्ज[5a]ने 'अधरविधुरता’ अधरश्च विधुरश्च
तेषां भावस्तत्ता । 'अधर: ओंकारः, विधुः बिन्दुः, रः रेफः, के इति ककारे