This page has not been fully proofread.

T
 
१०
 
महाकविवाण-विरचितं चण्डीशतकम्
 
'आक्षेपं च समाधानं कृत्वा वादान्तराणि तु
 
वितथीकृत्य या व्याख्या टीकां तामाहुरुत्तमाम् ॥'
 
[ पद्याङ्क १ व्याख्या
 
इति टीकालक्षणत्वात् पूर्वपाठशोवनचिन्ताऽनुचितेति न वाच्यम् । तथा
चोक्त व्याख्यानकृद्भिस्तल्लक्षणम्-
'पदच्छेदः पदार्थोक्तिविग्रहो वा योजना ।
 
आक्षेपश्च समाधानं षोढा व्याख्यानलक्षणम् ॥' इति,
 
अथ मन्त्रोद्धारप्रकारेण किञ्चिदर्थान्तरं यथा, तत्र मन्त्रार्णप्रकाशनाय
क्लिष्टेऽपि पदच्छेदे मयि कृपापरैः सद्भिनद्वगः कर्त्तव्यः ।
 
प्रायेणामृतमव्यक्त व्यक्तविषमितस्ततः ।
क्षुण्णाक्षुण्णत्वतः स्तोत्र - पन्थानी सुगदुर्गमौ ॥
 
यथा 'उ' इति सम्बोधने, देवी भुवनेश्वरी वः युष्माकं, अंहः पापं मुण्यात् । कि-
विशिष्टा देवी, 'हिः' हकार
रेफ-इकारवाच्या सदाशिवमाधवब्रह्मरूपा ।
"सदाशिवो हकारः स्यात् इकारी माधवः स्मृतः । रेफो रजो गुणो ब्रह्म" इत्यने-
कार्थध्वनिमञ्जर्याम् । अथ हकाररेफेकारैः सोमसूर्याग्निवर्णरूपात्मिका हकारा-
दिषु सोमादिक्रमाभावात् कलनातीतत्वं द्योतितम् । पुनः किम्भूता, मूद् नि वर्त-
माना सतो, 'अनि' जीवे इति जीवस्थाने हृदये ग्रस्ता-आरोपिता । अनिति
प्राणितीत्यन् क्विबन्तः, आपसर्ग: । व्यवहितो वा प्रास्तेति ध्यानार्थं हृदये
मानीता । पुनः किंविशिष्टा, इति अवयवान् मन्त्रबीजाणवयवान् क्षीविभ्रमं
प्रकृति प्रापयन्ती, एवेत्यवधारणे । "प्रकृतिः स्वभावे योनौ च" इत्यनेकार्थे ।
वीनां पक्षिणां भ्रमो यस्मिन्निति विभ्रमः । आकाशे हकारः । क्षीभिरुपलक्षितो
विभ्रमः क्षोविभ्रमः तम् । "क्षकारो व्यापि ब्रह्म" इत्यागमनिघण्टौ । "
ब्रह्मेति च मातृकानिघण्टो, श्रं एतावता अनुस्वारः सम्पन्न: । 'ई:' इति शान्ति-
कला, ईकारः । 'र्' इति रेफः । एवं हकाररेफेकारानुस्वारः कृत्वा 'ह्रीं' इति
बीजं जातम् । तदुक्त – 'घनवर्त्मचूर्ण गतिशान्तिबिन्दुभिः कथितः । परप्रकृति-
वाचको मनुरि'ति । अस्य च मनोः सर्वस्य मन्त्रजातस्य सर्वस्य च विश्वस्यादिका-
रणत्वात् प्रकृतित्वम् । श्रथ क्षीविभ्रममिति व्युत्क्रमस्थानात् अवयवान् प्रकृति-
स्वभावं प्रापयन्ती, क्रमेण योजयन्ती । किंविशिष्टं विभ्रमम्, 'माभाम्' मकारेण
युक्त
'या' [इति] 'मा' तेन भातीति स तथा । एतावता पूर्वं इति पाशबीजं
जातम् । पुनः किविशिष्टा, के व्यञ्ज [sa]ने 'अधरविधुरता' प्रधरश्च विधुरश्च
तेषां भावस्तत्ता । श्रधरः ओंकारः, विधुः बिन्दुः, र: रेफः, के इति ककारे
 
-
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy