2023-03-27 20:50:16 by manu_css
This page has been fully proofread once and needs a second look.
दिशः श्रोत्रमि’ति, एवं महिषस्यावयवान् परां प्रकृतिं प्रापयति । हे भ्रूः ! त्वदा-
श्रयो महिषो मया व्यापादितः, अतो निराश्रया त्वं विगतचलनं मा भांक्षी: । इमं
त्यक्त्वा इतश्चल गच्छेति प्रति प्रतीकं योजनीयम् । अधर ! इयं का विधुरता,
'विधुश्च रश्च विधुरौ तयोर्भावो विधुरता, कान्तिमत्त्वं विधुताऽके(को) पित्वं, अग्निता
द्वयेनापि मृतस्य न भवितव्यमिति भावः । अस्य ! रागं क्षिप, मृतस्य हि
मुखं पाण्डु भवति । पाणे ! कलहश्रद्धया, कलं हन्तीति कलहं, शस्त्रं तद्वाञ्छया
युद्धेऽभिमुखः शस्त्रहतो मोक्षं यातीति कृत्वा किं त्रिशूलं किं कलयसि ? मच्चरण-
पातेनैवाऽयं गतासुरिति । अथ त्रिशूलहतमहिषकण्ठनिःसृतपुरुषः पाणिं प्रत्याह--
हे पाणे ! महिषवधसाधनं मद्धस्तस्थं त्रिशूलं कि कलयसि ? अनेन त्रिशूलेन
हतो महिष इति स पुमान् क्रूरया दृशा त्रिशूलं विलोकयामास । तं प्रत्याह--
यदाश्रयस्त्वं युद्धमभिलषसि अयं 'ना' पुमान् प्राण्येव प्राणिमात्रं, स्थिरो भव ।
अस्य प्राणान् सुखेन हरिष्यामीति त्वं स्वप्रकृतौ नेयं प्राप्नुहीति । कलिरत्र 'कलित्क-
गतिसंख्ययोः' इति । "ये एव गत्यर्थास्ते एव ज्ञानार्थाः" इति ज्ञानार्थ: । अथ
प्राणीति, प्राणित्वमात्रं विवक्षितं न विशिष्ट: कश्चन इति । अनया अनुगतव्य-
वहारासाधारणकारणत्वविवक्षया यथाऽन्ये चक्षुराख्यादयो निपातितास्तथाऽयमपीति,
यथा द्वित्वैकत्वयोरिति वक्तव्ये द्वयेकयोर्द्विवचनैकवचने इत्युक्तम् । किं पुनरत्रा-
वधार्य निषिध्यते ? यदि अयमेव प्राणी नेति अयं अवधार्येत, तदाऽन्ये दैत्या मृता
अपि प्राणिनः स्युः । अयं चोत्पत्तेः प्रागपि प्राणसंयोगरहित इति तन्मारणमनुप-
पन्नमापद्येत । अथाऽयं प्राण्येव नेति प्राणसम्बन्धोऽवधार्य निषिध्येत, तदा किं[4b]
उत्पत्तेः प्रागपि प्राणिसम्बन्धो निषिध्येत उत साम्प्रतं अथागन्तुकः, तदुक्तम्--
अयोगं योगमपरैरत्यन्तायोगमेव वा ।
व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेककः ॥ इति,
न तावत्प्रथमः सत्कार्यवादिमते असदकरणादित्यादिहेतुभिः पूर्वं प्राणसम्बन्धात्-
तदुक्तम्--
विधानं प्रतिषेधं च मुक्त्वा शब्दोऽस्ति नापरः ।
व्यवहारः स चासुत्सुनेति प्राप्ताऽत्र मूकता ॥ इति,
‘तस्मान्निपातानामनेकार्थत्वात् । एव शब्दोऽत्र मात्रपर्यायो वेदितव्यः । अत्र
स्त्रीणां वामाक्षिप्राधान्यात् । अथ रोषामर्षादौ कटाक्षस्येदृक्साध्यत्वात् । अथ
त्रिनेत्राया जात्युपाधेर्भ्रूरित्यत्रैकवचनम् । अत्र च पद्ये 'न्यस्तो वो मूर्द्धनी'ति विरुद्ध-
मत्युक्तिकृत्त्वात् । 'मुष्याद् वः पापमंह्रिर्मरुदसुहृदसून् संहरन् मूर्द्धनि दत्त' इति
युक्तः पाठः । अत्र च--