2023-03-27 20:49:41 by manu_css
This page has been fully proofread once and needs a second look.
दिको डूः । 'नेयङुवङ्स्थानावस्त्री'ति ह्रस्वाभावः । भांक्षीरित्यत्र 'वदव्रजहलंतस्याच'
इति हल्समुदायग्रहणात् हल्द्वयव्यवधानेऽपि वृद्धिः । प्रकृतिप्रत्ययविभाग-
विचारस्तु अवसरान्तरे निरूप्यमाणोऽस्तीति नेह प्रतन्यते । अनुच, हे अधर !
केयं विधुरता वैधुर्यं यत् त्वं स्फुरसि । अनु च, हे आस्य ! मुख ! त्वं रागं रक्तत्वं
अस्य क्षिप लौहित्यं पराकुरु । अनु च, हे पाणे ! हस्त ! कलहश्रद्धया युद्धेप्सया
त्रिशूलं कि कलयसि तोलयसि ? विकारपरित्यागोपदेशे हेतुगर्भं तत्स्वरूपमाह,
हे अवयव ! इत्यनुषङ्गः । वाक्यस्थस्यैव पदस्य विभक्तिपरिणामादिनाकृष्या-
नेन योगोऽनुषङ्गः । अयं महिषः प्राण्येव न मच्चरणन्यासादेवायं गतासुरित्यर्थः ।
किं श्राम्यथ, अत्र प्राणिनि भाविनि भूतवदुपचारादप्राणीत्युक्तं किञ्च सर्वे-
शितुर्भवान्या अपघनानां मृतमारणे प्रवृत्तिरसमञ्जसेति रिपोरपि प्रकृष्टशौर्यादि
वर्णयित्वा तद्धतिर्युक्तेति । शान्तिं इतान् तान्[अवयवानिति शेष:] । अयं
प्राण्येवेति प्राणिमात्रं न किन्तु सुरासुरदर्पदलनो महिषोऽयमित्युद्दीपयसि । कथमिति
तदाह, हे भ्रू ! विभ्रमं चलनं मा भांक्षीः ; कोपवशाच्चलाचला भवेत्यर्थः । अथ
विभ्रमं विगतो भ्रमो भ्रान्तिर्यत इति भ्रान्तिराहित्यं मा भांक्षीः, सावधाना
भवेत्यर्थः । "भ्रमस्तु चलने भ्रान्तौ विलासे वारिनिर्गमे" इत्यनेकार्थे । हे अधर !
विह्वलता का, 'विधुरं स्यात् प्रविश्लेषे विह्वले’ इति । हे आस्य ! अस्य
महिषस्योपरि रागं अनुरागं अस्य क्षिप, अस्येति काकाक्षिगोलकन्यायेन उभयत्र
सम्बध्यते । हे पाणे ! खड्गश्रद्धया त्रिशूलं किं कलयसि, "कलहः खड्गकोशे
स्यात्" इति । कलहोऽस्यास्तीति कलहः खड्गः । अकारोऽत्र मत्वर्थीयः, तया
महासिना देव्ये'ति मार्कण्डेयपुराणे । अत्राचेतनेष्ववयवेषु चेतनवत्सम्बोधनं,
लक्षण[4a] या मुख्यार्थबाधे चेतनावत्वमारोप्यते । अथ स्तुत्यर्थेन "अचेतनेष्वर्थ-
सम्बन्धात्" इति जैमिनिसूत्रत्वात् । “शृणोत ग्रावाण" इत्यादिमन्त्राणां
अप्रामाण्यमाशंक्य अभिमानव्यपदेश इति । तदधिष्ठातृदेवतास्तुतिपरत्वेन भगवता
बादरायणेन प्रामाण्यं निरणायि । एतदेवाऽभिप्रेत्य भगवान् जैमिनिर्मन्त्राधिकरणे
मन्त्राणां विवक्षितार्थत्वमसूत्रयत् । तत्राऽवशिष्टस्तु वाक्यार्थ इत्यारभ्य 'औषधे
त्रायस्व स्वप्रितेमैनं’ इति, शृणोत ग्रावाण इत्यादिसम्बोधनानि स्तुतिपरत्वेनेति
सिद्धान्तितम् । अथ चाऽतीवसूरस्य महिषस्य मुमूर्षोरपि शूलके बन्धवत् ।
उद्यत्कोपकेतू[न्] निरवयवान् इति प्रकृतिं प्रापयन्त्या । प्रकृतिमिति प्रकृतेर्महा-
नित्यादिना यत् यत् उत्पद्यते तत् तस्मिन्नेव प्रतिसर्गे लीयते । यथा हेमपिण्डं
मृत्पिडं वा मुकुटघटादयो विशंतोऽव्यक्तीभवन्ति । यथा पृथिव्यादयस्तन्मात्राणि
विशन्ति, तन्मात्राण्यहङ्कार, अहङ्कारो महान्तं, महांश्च प्रकृतिमिति । यथा शातपथी
स्तुतिः । 'यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यं मनश्चन्द्रं