This page has been fully proofread once and needs a second look.

=]
 
महाकविबाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क १ व्याख्या
 
दिको डू:डूः । 'नेयङुवङ्स्थानावस्त्रोरी'ति ह्रस्वाभावः । भांक्षीरित्यत्र 'वदव्रजहलंतस्याच'

इति हल्समुदायग्रहणात् हल्द्वयव्यवधानेऽपि वृद्धिः । प्रकृतिप्रत्ययविभाग-

विचारस्तु अवसरान्तरे निरूप्यमाणोऽस्तीति नेह प्रतन्यते । अनुच, हे अधर !

केयं विधुरता वैधुर्यं यत् त्वं स्फुरसि । अनु च, हे आस्य ! मुख ! त्वं रागं रक्तत्वं

अस्य क्षिप लोलौहित्यं पराकुरु । अनु च, हे पाणे ! हस्त ! कलहश्रद्धया युद्धेप्सया

त्रिशूलं कि कलयसि तोलयसि ? विकारपरित्यागोपदेशे हेतुगर्भं तत्स्वरूपमाह,

हे अवयवा ! इत्यनुषङ्गः । वाक्यस्थस्यैव पदस्य विभक्तिपरिणामादिनाकृष्या-

नेन योगोऽनुषङ्गः । अयं महिषः प्राण्येव न मच्चरणन्यासादेवायं गतासुरित्यर्थः ।
कि

किं
श्राम्यथ, अत्र प्राणिनि भाविनि भूतवदुपचारादप्राणीत्युक्तं किञ्च सर्वे-

शितुर्भवान्या अपघनानां मृतमारणे प्रवृत्तिरसमञ्जसेति रिपोरपि प्रकृष्टशौर्यादि

वर्णयित्वा तद्धतिर्युक्तेति । शान्तितिं इतान् तान् [अवयवानिति शेषःष:] । अयं

प्राण्येवेति प्राणिमात्रं न किन्तु सुरासुरदर्पदलनो महिषोsयमित्युद्दीपयसि । कथमिति

तदाह, हे भ्रू: ! विभ्रमं चलनं मा भांक्षी:षीः ; कोपवशाच्चलाचला भवेत्यर्थः । प्र

विभ्रमं विगतो भ्रमो भ्रान्तिर्यत इति भ्रान्तिराहित्यं मा भांक्षीः, सावधाना

भवेत्यर्थः । "भ्रमस्तु चलने भ्रान्तौ विलासे वारिनिर्गमे" इत्यनेकार्थे । हे अधर !

विह्वलता का, 'विधुरं स्यात् प्रविश्लेषे विह्वलं'ले’ इति । हे त्रस्य ! अस्य

महिषस्योपरि रागं अनुरागं अस्य क्षिप, अस्येति काकाक्षिगोलकन्यायेन उभयत्र

सम्बध्यते । हे पाणे ! खङ्ड्गश्रद्धया त्रिशूलं किकिं कलयसि, "कलहः खड्ग कोशे

स्यात्" इति । कलहोऽस्यास्तीति कलहः खः । खड्गः । अकारोऽत्र मत्वर्थीय:यः, 'तथा
तया
महासिना देव्ये' ति मार्कण्डेयपुराणे । अत्राचेतनेष्ववयवेषु चेतनवत्सम्बोधनं,

लक्षण[4a] या मुख्यार्थबाधे चेतनावत्वमारोप्यते । अथ स्तुत्यर्थेन "अचेतनेष्वर्थ-

सम्बन्धात्" इति जंजैमिनिसूत्रत्वात् । "श्रृ“शृणोत ग्रावाण" इत्यादिमन्त्राणां

अप्रामाण्यमाशंक्य अभिमानव्यपदेश इति । तदधिष्ठातृदेवतास्तुतिपरत्वेन भगवता

बादरायणेन प्रामाण्यं निरणायि । एतदेवाऽभिप्रेत्य भगवान् जैमिनिर्मन्त्राधिकरणे

मन्त्राणां विवक्षितार्थत्वमसूत्रयत् । तत्राऽवशिष्टस्तु वाक्यार्थ इत्यारभ्य 'औषधे

त्रायस्व स्वप्रितेमन'मैनं’ इति, शृणोत ग्रावाण इत्यादिसम्बोधनानि स्तुतिपरत्वेनेति

सिद्धान्तितम् । अथ चातीवसूरस्य महिषस्य मुमूर्षोरपि शूलके बन्धवत् ।

उद्यत्कोपकेतू[न्] निरवयवान् इति प्रकृतितिं प्रापयन्त्या । प्रकृतिमिति प्रकृतेर्महा-

नित्यादिना यत् यत् उत्पद्यते तत् तस्मिन्नेव प्रतिसर्गे लीयते । यथा हेमपिण्डं

मृत्पिडं वा मुकुटघटादयो विशंतोऽव्यक्तीभवन्ति । यथा पृथिव्यादयस्तन्मात्राणि

विशन्ति, तन्मात्राण्यहङ्कारं, ग्रहङ्कारो महान्तं, महांश्च प्रकृतिमिति । यथा शातपथी

स्तुतिः । 'यत्रास्य पुरुषस्य मृतस्याग्निनिं वागप्येति वातं प्राणश्चक्षुरादित्यं मनश्चन्द्रं
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy