2023-03-27 20:49:23 by manu_css
This page has been fully proofread once and needs a second look.
शाब्दो वाक्यार्थ: स्यात्, न च पदार्था नाम सप्तमं प्रमाणमस्तीति शब्दावगत-
पदार्थानां शब्दप्रमाणान्तरभावे प्रत्यक्षावगतशब्दलिङ्गयोरपि प्रत्यक्षप्रमाणत्व-
प्रसङ्गः । तस्माद् व्यवस्थितमेतत्पदानि प्रत्येकमेकैकमर्थं प्रतिपादयन्ति सन्ति
वाक्यार्थे धियं जनयन्तीत्यलमतिप्रसङ्गेन ।
देव्या अंह्रिः चरणो वो युष्माकं अंहः पापं मुष्यात् अपहरतु, अत्र सत्स्वप्य-
न्येष्वाशास्येषु सकलपुमर्थहेतुभूतायाः पापापहतेरेवादावाशास्यत्वं बहुमन्यमानस्ता-
मेवादौ प्रायुङ्क्त । तदुक्तम्--
'निष्पापस्य मनुष्यस्य किं न सिध्यति भूतले ।' इति,
'आशिषि लिङ् लोटौ’ इति एष विष[य]त्वादुभयोर्वाच्यवाचकभावः । मुष्यात्
इति आशीर्वचनमौचित्यमावहति । यतस्त्रिजगतामपि पापपरिपाकरूपस्य महिषस्य
व्यापादनाय शिरसि न्यस्तस्य तथोद्धारेण त्रिजगदानन्दकन्दस्य पादस्य भक्तपापा-
पहारित्वं युक्तमिति । तदुक्तम्--
पूर्णार्थदातुः काव्यस्य सन्तोषितमनीषिणः ।
उचिताशीर्नृपस्येव भवत्यभ्युदयावहा ॥ इति,
किं कुर्वन्, 'मरुदसुहृदसून् हरन्' मरुतो देवास्तेषां असुहृत्, न सुहृत्
असुहृत् अमित्र: "सुहृद्दुहृदो मित्राऽमित्रयोः", अथवा असून प्राणान् हरतीति
असुहृत्, मरुतामसुहृत् मरुदसुहृत् तस्य असवः प्राणाः मरुदसुहृदसवः तान्
मरुद(3b)सुहृदसून् विनाशयन् । अत्रासुहर्तु: असुहरणं कृतप्रतिकृतन्यायेन युक्त-
त्वादुचितम् । कथम्भूतोऽह्रिः, देव्या महिषस्य मूर्ध्नि न्यस्तः आरोपितः । अत्र
'देव्या इति षष्ठ्यन्तं विसर्गलोपात् तृतीयान्तं चेति कृत्वोभयत्र सम्बध्यते । अनेना-
ऽद्भुतं काव्यमुच्यते । तदुक्तम्--
यत्र लिङ्गविभक्तीनां सति भेदे महत्यपि ।
दृश्यते शब्दसादृश्यमिदमद्भुतमुच्यते ॥
'देव्या' इति कर्त्तरि तृतीया । कथम्भूतया देव्या, 'अवयवान्' अर्थात् स्व-
कीयानेव भ्रू-अधरादीन् इति वक्ष्यमाणप्रकारेण प्रकृतिं स्वभावं प्रापयन्त्या पूर्वा-
वस्थामापादयन्त्या, प्रापयन्त्येवेत्यत्र इवेन नित्यसमासः, 'पूर्वपदप्रकृतिस्वरत्वं
विभक्त्यलोपश्च' । किंविशिष्टान् अवयवान्, 'उद्यत्कोपकेतून्' उद्यंश्चासौ कोपश्च
उद्यत्कोपस्तस्य केतुः चिह्नं सकोपभ्रूविकारादिर्येषां ते तथा तान् । अथ कोपः
केतुरिवेति ‘उपमितं व्याघ्रादिभि’रिति समासः । उद्यन् कोप एवं केतुः शत्रुवध-
पिशुनो ग्रहो येषु इति नोक्तं, विवृण्वन्नाह किं तत्, हे भ्रूः ! विभ्रमं मा
भांक्षी: विलासभङ्गं मा कार्षीः, भ्रूरिति, भ्राम्यतीति 'भ्रमि गमि' इत्यौणा-