This page has been fully proofread once and needs a second look.

पद्याङ्क १ व्याख्या ]
 
मेवपाटेश्वर कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
[ x
 
ननु किमिदं वाक्यं ? 'एकस्मृत्युपारूढ: एकार्थप्रतिपादकःक: पदसमूहो वाक्यं,'

विभक्त्यन्ता वर्णाः, पदं पदानामे कस्मृतिसमारोहणैकार्थाभिधायकसमूहो वाक्यम् ।
 

 
ननु चायंऽर्थप्रतिपादकःक: पदसमूह इत्युक्तम्, वर्णानां तु उच्चरितप्रध्वंसिनां

समुदायासम्भवेन पदसमुदायाऽभावात् ।
 

 
एकस्मृतिसमारूढत्वमेव समुदाय इति चेत्, न दीननदीत्यादीनामपि

विपरीतक्रमाणां तथार्थप्रतिपादकत्व प्रसङ्गात् ।
 

 
न च पदानामपि प्रत्येकं वाक्यार्थप्रतिपादकत्वं, इतरपदवैयर्थ्यप्रसंगात्, किञ्चैकं

पदमेकं वाक्यमिति प्रतीतिरपि न विभिन्नवर्णालम्बना भवितुमर्हति, अनेकस्य

यथार्थेकप्रत्ययालम्बनत्वायोगात् । तस्मात् वर्णैरभिव्यक्ता स्फोटा देवार्थप्रतिपत्ति-

रिति । तदयुक्तं, वर्णातिरिक्तस्य स्फोटस्य प्रत्यक्षेणाप्रतीतिः । किञ्च स्फोटस्य

सत्तामात्रेणार्श्वऽर्थप्रतिपादकत्वे वर्णोच्चारमन्तरेणाऽव्प्यर्थप्रतिपादकत्व (2b)- प्रसंङ्गः ।

वर्णैरभिव्यक्तस्यार्थप्रतिपादकत्वे तु त्वं() दुक्तदोषस्यानतिवृत्तिः स्यात् । यथा च

रीत्या वर्णानां स्फोटाऽभिव्यञ्जकत्वं तयैवार्थाभिधायकत्वमेवास्तु, किमन्तर्गडुना

स्फोटेन ?
 
अथ

 
प्रयत्नभेदाननुपातिनो वायवीयाः ध्वनयः प्रत्येकमेव तत्तद्वर्णात्मकतया

स्फोटकमस्फुटमभिव्यञ्जयन्तः पूर्वपूर्ववर्णविषयानुभवजनित संस्कारसाचिव्यलोभा-

दन्तःस्फुटं स्फोटमाभासयन्ते । ततश्चार्थप्रत्यय इति, तदप्ययुक्तम् वर्णविज्ञानस्य

श्रोत्रत्वात् । किञ्चाऽरोप्याधिकरणयोः क्वचिद् भेदेन प्रतीतोतौ भ्रान्तिरुपपद्यते,

न च वर्णस्फोटयोः, क्वचिदपि भेदेन प्रतिपत्तिरस्ति । एकपदमेकं वाक्यमित्यादि-

व्यवहारस्य सेनानननाद्येकत्वव्यवहारवत् (?) समूहविषयत्वेनाप्युपपत्तेः । यदप्येक-

स्मृतिसमारोहेण दोदीननदीत्यादावविशेषेणार्थप्रतिपादकत्वमापादितं, तदपि पूर्वानु-

भवक्रमानुसारिस्मृतिविषयतया अर्थप्रतिपादकत्वेन परास्तम् । उक्तञ्च
 
--
 
यावन्तो यादृशा ये च यदर्थप्रतिपादने ।
 

वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवाज्वबोधकाः ॥ इति,
 

 

 
तत् सिद्धमेतदुच्चरितप्रध्वंसिनामपि वर्णानामेकस्मृतिसमारोहेण समूहोऽर्थ-

प्रतिपादक इति उच्चरितप्रध्वंसित्वमनुपपन्न मनित्यत्वे प्रमाणाभावादिति कश्चित् ।

तदयुक्तम्, प्रमाणस्य विद्यमानत्वात् । तथाहि 'शब्दो नित्यः' कृतकत्वात्, घट-

वत् । असिद्धं तस्यः कृतकत्वमिति चेत्, न, ताल्वादिसंयोगकारणान्वयव्यतिरे-

कानुविधानात् । ताल्वादीनां व्यञ्जकत्वमिति चेत्, न, तद्व्यापारात् प्राक्शब्दे

सत्वे प्रमाणाभावात् कोलाहलप्रसङ्गाच्च । अन्यथा सुखादिकारणानां व्यञ्ज-

कत्वमेव स्यात् । विशेषाभावात् स एवाऽयं गकार इति प्रत्यभिज्ञानं प्रागवस्थाने
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy
 
T