2023-03-27 20:47:49 by manu_css
This page has been fully proofread once and needs a second look.
ननु शास्त्रादौ प्रयोजनाभिधेयसम्बन्धा अवश्यमुपादेयाः, तदनुपादाने श्रोतारो
न प्रवर्तन्ते तदप्रवृत्तौ शास्त्रं कृतमपि अनुपादेयं स्यात् । तदुक्तमाद्यैः--
दृष्टार्थे ज्ञातसम्बन्धं श्रोतुं श्रोता प्रवर्तते ।
शास्त्रादौ तेनं वक्तव्यः सम्बन्ध: सप्रयोजनः॥ इति,
न चेदमशास्त्रमिति शङ्कनीयम् । 'पुरुषार्थशासनाच्छास्त्रम्' इति कृत्वा
सकलशास्त्र हेतुभूता भवानीभक्तिविषये प्रवृत्त्युत्पादकत्वादस्य । तदुक्तम्--
प्रवृत्तिर्वा निवृत्तिर्वा पुंसां येनोपदिश्यते ।
नित्येन कृतकेनाऽपि तच्छास्त्रमभिधीयते ॥ इति,
तस्माद् 'यदुद्दिश्य प्रवर्तन्ते पुरुषास्तत्प्रयोजनमि'ति । पुरुषप्रवृत्तिनिमित्त-
त्वादवश्यमभिधेयं प्रयोजनादि । तद् द्विविधं, मुख्यं गौणञ्च । तत्रानन्यार्थं मुख्यं,
यथा-- सुखं दुःखाभावश्च अन्यार्थ गौणं, यथा-- सुखसाधनं दुःखपरिहारश्च ।
तदुक्तम्--
सुखाप्तिर्दुखःहानिश्च मुख्यमेतत्प्रयोजनम् । इति,
केचित्पुनर्धमार्थकाममोक्षा: प्रयोजनमित्याहुः, तदयुक्तं, ग्रामगमनादिषु
अव्याप्ते: कामपदेन तेषां सङ्ग्रह इति चेत्, न, निरुपमपदस्य कामपदस्य
कामिनीविषयानुराग एव प्रवृत्तिदर्शनात् । काम्यत इति व्युत्पत्या तत्रापि प्रवृत्ति-
रिति चेत्, एवं सत्यनेनैव सर्वसङ्ग्रहे धर्माद्युपादानवैयर्थ्यप्रसङ्गः । तस्मात्
सुष्ठुक्तं- 'सुखाप्तिदु:खहानिश्चेति’ । अनेन प्रयोजनेन सर्वे प्राणिनः सर्वाणि
कर्माणि सर्वाश्च विद्या व्याप्ताः । यथा चोक्तम्--
'प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते’ । इति,
अत्र तु उभयमप्यस्ति । भगवत्या भक्तानां सुखार्थमेव प्रवृत्तेर्दर्शनात्,
तदुक्तम्--
'एभिर्हतैर्जगदुपैतु सुखम्' इति,
दुःखहानावपि कोऽपि प्रभावातिशयोऽस्यैव स्तोत्रस्य श्रूयते । किल कलित-
मयूरस्पर्धोऽस्य स्तोत्रस्य 'मा भांक्षीविभ्रमं' इत्याद्यपद्याद्याक्षरषट्कोच्चारसम-
समयमेव छिन्नपुनःप्ररूढावयवो वाण: आपेक्षिकसकलदुःखविनिर्मुक्तः सन् अग्रे-
तनं स्तोत्रं चकारेति । एवञ्च मुख्यप्रयोजनसद्भावः सूचितो भवति । अभिधेयो
भगवतीमहिमा, अर्थात् आपन्नास्तत्स्वरूपजिज्ञासवो भक्ताधिकारिणः । अभि-
धायकं स्तोत्रं तयोरभिधेयाभिधायकलक्षणः सम्बन्ध: सूचितो भवति । एवं सिद्ध-
प्रयोजनादिसद्भावं स्तोत्रव्याख्यानमर्हतीति, तस्येदमाद्य पद्यं व्याकर्त्तुं प्रस्तूयते
यथा--