This page has been fully proofread once and needs a second look.

इत्थं तुल्यसुवर्णदानसमये[यः] पारिशेष्यान्मितो
विद्वद्भिः स्वभुजार्जिताधिकवसुः श्रीलक्षसिंहो नृपः ॥१६॥
 
जाता: सत्यमधिक्षिति क्षितिभुजो दातृत्वकाष्ठापरा-
ऽनेके मा वृणतो जनो झटिति यैरेकैकतस्तं पुनः ।
किं तैश्चर्वितचर्वणव्यवसितैरूनोव्य(ऽद्य ) हेम्ना गया-
मित्थं विश्वजनीनकर्मनिरतो योऽमू(भूद्) भुवनत्रयात् ॥ १७॥
 
तदनु विश्रुतिमाप स मोकलः
प्रतिभटक्षितिपैरसमो कलः ।
रविसुराधिपशेषसमो कल(:)
प्रतिनिधि(45a) र्भुवनेऽपि स मोकलः ॥१८॥
 
वर्ण्यः किं स नृपाग्रणीर्नतनृपप्राग्भारमौलिक्षरन्-
मालाऽऽमोदि मधुव्रतस्म(स्न) पितविभ्राजत्पदाम्भोरुहः ।
यस्योत्तुङ्गतुरङ्गचञ्चलखुरो(रै)र्यद्रेणुभिः पण्डितैः
स्वर्धुन्यम्बुनि भूमुखं विरह(हर)तामर्कायतामम्बरे ॥१९॥
 
लीलालोलमदिष्णुकुञ्जरवरव्रातैर्गिरीन्द्रप्रभां
बिभ्रद्भिः समरावनीपरिसरे यत्राऽभ्यमित्रीयति ।
न (च)ञ्चद्भूमिरसातलोद्गतजलप्रोत्तुङ्गरङ्गच्छटा-
वीचिक्षोभमवाप्य संभ्रमवशात्सेतोः स्मरत्यम्बुधिः ॥२०॥
 
प्रतापार्के यस्य क्षितिक्रमितुरुच्चोच्चतरतां
गतेऽरातिस्त्रैणप्रबलमुखचन्द्रा गतरुचः ।
निसर्गोऽयं सर्गः पुनरयम(मि)मे योऽरिहृदये
यतः प्रादुर्भावं गतमतितरां मोहतिमिरम् ॥२१॥
 
वीरस्य यस्य समरेऽधिकरं कृपाणी-
मुत्कञ्चुकामरिभटानिलबद्धतृष्णाम् ।
दृष्ट्वा भुजङ्गयुवतीमिव वैरिवर्गा-
स्त्रासात्समुद्रमपि गोष्पदतामनैषुः ॥२२॥
 
नध्य(व्य) तां सकलभूमि[प]वधानां शेखरावधितः कमलत्त्वम् ।
यस्य भूमिकमितुश्चरणस्य प्राप संख्या विजिताऽरिभटस्य ॥२३॥
 
यस्य प्रतापस्य मृषा न जाता
कृशानुताऽऽरिद्रुमदाहदानात् ।
एतन्न जाने यदभूत्सुधात्वं
सत्सङ्गिनस्तस्य तथाविधस्य ॥२४॥