This page has been fully proofread once and needs a second look.

कुं० वृ०--पार्वत्याः वामपादो वो युष्माकं सदैव दारुणं रौद्रं दुरितं शमयतु
शमं नयतु, किंभूतो वामचरणः, तस्य महिषितवपुषो मायामहिषस्य सुरारेर्ध्वंसात्
लब्धमानावकाशः, लब्धो मानस्य अवकाशो येन स तथा, तस्य कस्य, स्थाणुर्महेश्वरः
आजौ सङ्ग्रामे यं दृष्ट्वा क्षणमिव सभयं यथा स्यात् तथा स्थाणुरेव कीलक एव
उपजातः, विशेषणद्वारेण उभयोः साम्यमाह, किंभूतः, स्रस्ताङ्गः त्रस्तं ध्वस्तं अङ्गं
यस्य स तथा, स्थाणुरपि स्रस्ताङ्गो भवति, पुनश्च सन्नचेष्टः सन्ना चेष्टा यस्य स
तथा, स्थाणुरपि निश्चेष्टो निरङ्गश्च भवति; पुनश्च भयहृतवचनः भयेन हृतं
वचनं यस्य, स्थाणुः स्वभावादवचनः; सन्नदोर्दण्ड़शाख : सन्ना दोर्दण्ड़ा एव शाखा
यस्य, यं दृष्ट्वा त्रिजगतां कोदण्डदीक्षागुरुरपि स्थाणुरेवमवस्थो जातस्तस्य सुरारे-
र्ध्वंसात् लब्धमानावकाशो देव्या जगदम्बाया वामचरणो वो युष्माकं सदैव
अनवरतमेव सर्वं दुरितं नाशयतु, इति सकलस्तोत्रार्थः; एवं शब्दो वाक्य-
परिसमाप्तौ ॥१०१॥ इति चण्डीशतवृत्तिः ॥
 
सं० व्या०--१०१. स्रस्ताङ्ग इति ॥ पार्वत्याः पर्वतपुत्र्याः वामपादः दक्षिणे-
तरश्चरणो वो युष्माकं सदैव नित्यमेव दुरितमशुभं दारुणं शमयतु नाशयतु,
महिषितं वपुर्येन स महिषितवपुस्तस्य महिषितवपुषः सुरारेर्विध्वंसाल्लब्ध-
मानावकाशः मानपूजायां मानं मानः अवकाशोऽवसरो मानस्यावकाशो मानाव-
काशः लब्धो मानावकाशो येन स तथोक्तः, स्थाणुः शङ्करो महिषितवपुषं सुरारिं
सरुषं सकोपं यथा क्षणं दृष्ट्वा अवलोक्य स्थाणुः च खुंटक एवोपजातः, किं-
विशिष्टः स्थाणुः स्रस्ताङ्गः सन्नचेष्टो भयहतवचनस्सन्नदोर्दण्डशाखः, स्रस्तं अधः-
पतितं अङ्गहस्तादिकं यस्य स तथोक्तः, इतरस्तु स्रस्तावयवः सन्ना गता चेष्टा
व्यापारो यस्य स तथोक्तः, भयेन हृतं वचनं यस्येति विग्रहः, अपरस्तु निसर्गादेव
अवचनः, दोर्दण्डा एव शाखा इति दोर्दण्डशाख:, एकत्र सन्ना ग्लाना विस्तीर्णा
दोर्दण्डशाखा यस्य सन्नदोर्दण्डशाख इति ॥१०१॥
 
* कुन्ते दन्तैर्निरुद्धे धनुषि विमुखितज्ये विषाणेन शूलाल्[^१]-
लाड़्गूलेन प्रकोष्ठे वलयिनि पतिते तत्कृपाणे स्वपाणेः ।
शूले लोलाड़्घ्रिघातै[^२]र्ललितकरतलात् प्रच्युते दूरमुर्व्यां
सर्वाङ्गीणं लुलायं जयति चरणतश्चण्डिका चूर्णयन्ती ॥१०२॥
 
इति श्रीमहाकविबाणभट्टविरचितं चण्डीशतकं समाप्तम् । सं० १९८२ श्रावण
कृष्णा १ भौमे शुभमस्तु ।
 
------------------------

*श्लोकोऽयं प्रतौ नोपलभ्यते । ज. प्रतावयं व्याख्याविरहित एव, तदस्माभिः प्रपूरिताऽग्रिमे
पृष्ठे संक्षिप्तव्याख्या द्रष्टव्या--
[^१] का० मूलात् ।
[^२] का० पातैः ।