This page has been fully proofread once and needs a second look.

पद्याङ्क १०२ व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत-वृत्ति समेतम्
 
[ १५१
 
कुं० वृ० --पार्वत्याः वामपादो वो युष्माकं सदैव दारुणं रौद्रं दुरितं शमयतु

शमं नयतु, किंभूतो वामचरणः, तस्य महिषितवपुषो मायामहिषस्य सुरारेर्ध्वंसात्

लब्धमानावकाशः, लब्धो मानस्य अवकाशो येन स तथा, तस्य कस्य, स्थाणुर्महेश्वरः

जौ सङ्ग्रामे यं दृष्ट्वा क्षणमिव सभयं यथा स्यात् तथा स्थाणुरेव कीलक एव

उपजातः, विशेषणद्वारेण उभयोः साग्म्यमाह, किंभूतः, स्रस्ताङ्गः त्रस्तं ध्वस्तं ग्रङ्गं

यस्य स तथा, स्थाणुरपि स्रस्ताङ्गो भवति, पुनश्च सन्नचेष्ट:टः सन्ना चेष्टा यस्य स

तथा, स्थाणुरपि निश्चेष्टो निरङ्गश्च भवति; पुनश्च भयहृतवचन:नः भयेन हृतं

वचनं यस्य, स्थाणुः स्वभावादवचनः; सन्नदोर्दण्ड़शाख : सन्ना दोर्दण्ड़ा एव शाखा

यस्य, यं दृष्ट्वा त्रिजगतां कोदण्डदीक्षागुरुरपि स्थाणुरेवमवस्थो जातस्तस्य सुरारे-

र्
ध्वंसात् लब्धमानावकाशो देव्या जगदम्बाया वामचरणो वो युष्माकं सदैव

अनवरतमेव सर्वं दुरितं नाशयतु, इति सकलस्तोत्रार्थः; एवं शब्दो वाक्य-

परिसमाप्तीतौ ॥१०१॥ इति चण्डीशतवृत्तिः ॥
 

 
सं० व्या० - --१०१. स्रस्ताङ्ग इति ॥ पार्वत्याः पर्वतपुत्र्याः वामपादः दक्षिणे-

तरश्चरणो वो युष्माकं सदैव नित्यमेव दुरितमशुभं दारुणं शमयतु नाशयतु,

महिषितं वपुर्येन स महिषितवपुस्तस्य महिषितवपुषः सुरारेर्विध्वंसाल्लब्ध-

मानावकाश:शः मानपूजायां मानं मानः अवकाशोऽवसरो मानस्यावकाशो मानाव-

काश:शः लब्धो मानावकाशो येन स तथोक्तः, स्थाणुः शङ्करो महिषितवपुषं सुरारि
रिं
सरुषं सकोपं यथा क्षणं दृष्ट्वा अवलोक्य स्थाणुः च खुंटक एवोपजातः, किं-

विशिष्टः स्थाणुः स्रस्ताङ्गः सन्नचेष्टो भयहतवचनस्सन्नदोर्दण्डशाखः, स्रस्तं अधः-
पतितं अङ्गहस्तादिकं यस्य स तथोक्तः, इतरस्तु स्रस्तावयवः सन्ना गता चेष्टा
व्यापारो यस्य स तथोक्तः, भयेन हृतं वचनं यस्येति विग्रहः, अपरस्तु निसर्गादेव
अवचनः, दोर्दण्डा एव शाखा इति
दोर्दण्डशाख:, स्रस्तं अध:-
पतितं श्रङ्गहस्तादिकं यस्य स तथोक्तः, इतरस्तु स्रस्तावयवः
एकत्र सन्ना गता चेष्टा
व्यापारी यस्य स तथोक्तः, भयेन हृतं वचनं यस्येति
ग्लाना विग्रहः, अपरस्तु निसर्गादेव
श्रवचनः,
स्तीर्णा
दोर्दण्डा एव शाखा इति यस्य सन्नदोर्दण्डशाख:, एकत्र सन्ना ग्लाना विस्तीर्णा
दोर्दण्डशाखा यस्य सन्नदोर्दण्डशाख
इति ॥१०१॥
 

 
* कुन्ते दन्तै र्निरुद्धे धनुषि विमुखितज्ये विषाणेन शूलाल -
ल्[^१]-
लाड़्गूलेन प्रकोष्ठे वलयिनि पतिते तत्कृपाणे स्वपाणे:णेः

शूले लोला ड़्घ्रिघात लंतै[^२]र्ललित करतलात् प्रच्युते दूरमुर्व्या
 
C
 
यां
सर्वाङ्गीणं लुलायं जयति चरणतश्चण्डिका चूर्णयन्ती ॥ १०२॥
 

 
इति श्रीमहाकविबाणभट्ट विरचितं चण्डीशतकं समाप्तम् । सं० १९८२ श्रावण

कृष्णा १ भौमे शुभमस्तु ।
 

 
------------------------
 
*श्लोकोऽयं प्रतीतौ नोपलभ्यते । ज. प्रतावयं व्याख्याविरहित एव, तदस्माभिः प्रपूरिताऽग्रिमे

पृष्ठे संक्षिप्तव्याख्या द्रष्टव्या-
-
[^
.] का० मूलात!त् ।
[^२]
का० पातःतैः
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy