This page has not been fully proofread.

पद्याङ्क १०२ व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत-वृत्ति समेतम्
 
[ १५१
 
कुं०वृ० -पार्वत्याः वामपादो वो युष्मकं सदैव दारुणं रौद्रं दुरितं शमयतु
शमं नयतु, किंभूतो वामचरणः, तस्य महिषितवपुषो मायामहिषस्य सुरारेध्वंसात्
लब्धमानावकाशः, लब्धो मानस्य अवकाशो येन स तथा, तस्य कस्य, स्थाणुर्महेश्वरः
जौ सङ्ग्रामे यं दृष्ट्वा क्षणमिव सभयं यथा स्यात् तथा स्थाणुरेव कीलक एव
उपजातः, विशेषणद्वारेण उभयोः साग्यमाह, किंभूतः, स्रस्ताङ्गः त्रस्तं ध्वस्तं ग्रङ्गं
यस्य स तथा, स्थाणुरपि स्रस्ताङ्गो भवति, पुनश्च सन्नचेष्ट: सन्ना चेष्टा यस्य स
तथा, स्थाणुरपि निश्चेष्टो निरङ्गश्च भवति; पुनश्च भयहृतवचन: भयेन हृतं
वचनं यस्य, स्थाणुः स्वभावादवचनः; सन्नदोर्दण्ड़शाख : सन्ना दोर्दण्ड़ा एव शाखा
यस्य, यं दृष्ट्वा त्रिजगतां कोदण्डदीक्षागुरुरपि स्थाणुरेवमवस्थो जातस्तस्य सुरारे-
ध्वंसात् लब्धमानावकाशो देव्या जगदम्बाया वामचरणो वो युष्माकं सदैव
अनवरतमेव सर्वं दुरितं नाशयतु, इति सकलस्तोत्रार्थः; एवं शब्दो वाक्य-
परिसमाप्ती ॥१०१॥ इति चण्डीशतवृत्तिः ॥
 
सं०व्या० - १०१ स्रस्ताङ्ग इति ॥ पार्वत्याः पर्वतपुत्र्याः वामपादः दक्षिणे-
तरश्चरणो वो युष्माकं सदैव नित्यमेव दुरितमशुभं दारुणं शमयतु नाशयतु,
महिषितं वपुर्येन स महिषितवपुस्तस्य महिषितवपुषः सुरारेविध्वंसाल्लब्ध-
मानावकाश: मानपूजायां मानं मानः अवकाशोऽवसरो मानस्यावकाशो मानाव-
काश: लब्धो मानावकाशो येन स तथोक्तः, स्थाणुः शङ्करो महिषितवपुषं सुरारि
सरुषं सकोपं यथा क्षणं दृष्ट्वा अवलोक्य स्थाणुः च खुंटक एवोपजातः, किं-
विशिष्ट स्थाणुः स्रस्ताङ्गः सन्नचेष्टो भयहतवचनस्सन्नदोर्दण्डशाख:, स्रस्तं अध:-
पतितं श्रङ्गहस्तादिकं यस्य स तथोक्तः, इतरस्तु स्रस्तावयवः सन्ना गता चेष्टा
व्यापारी यस्य स तथोक्तः, भयेन हृतं वचनं यस्येति विग्रहः, अपरस्तु निसर्गादेव
श्रवचनः, दोर्दण्डा एव शाखा इति दोर्दण्डशाख:, एकत्र सन्ना ग्लाना विस्तीर्णा
दोर्दण्डशाखा यस्य सन्नदोर्दण्डशाख इति ॥१०१॥
 
* कुन्ते दन्तै निरुद्धे धनुषि विमुखितज्ये विषाणेन शूलाल -
लागलेन प्रकोष्ठे वलयिनि पतिते तत्कृपाणे स्वपाणे: ।
शूले लोला घ्रिघात लंलित करतलात् प्रच्युते दूरमुर्व्या
 
C
 
सर्वाङ्गीणं लुलायं जयति चरणतश्चण्डिका चूर्णयन्ती ॥ १०२॥
 
इति श्रीमहाकविबाणभट्ट विरचितं चण्डीशतकं समाप्तम् । सं० १९८२ श्रावण
कृष्णा १ भौमे शुभमस्तु ।
 
*इलोकोऽयं प्रती नोपलभ्यते । ज. प्रतावयं व्याख्याविरहित एव, तदस्माभिः प्रपूरिताऽग्रिमे
पृष्ठे संक्षिप्तव्याख्या द्रष्टव्या-
१. का० मूलात! का० पातः ।
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy