Proofing

✦

This page has been fully proofread once and needs a second look.

१५० ]
 
महाकविबाण-विरचितं चण्डीशतकम् [ पद्याङ्क १०१ व्याख्या
 
कुं०व० - व०--दर्प्पात् एवं हसन्तं सुररिपुं निघ्नती पार्वती वोऽवतात्, [443a]

एवं इति किं, युद्धभूमेः सकाशात् दिगीशां दिङ्नाथानां गजानां प्रतिदिशं अयनं

गमनं तावत् युक्तं, साधु नश्यन्ति एते, सुभटरणयुधां एषां सुभटस्य रणे युध्यन्त इति

सुभटरायुधः तेषां तथा दारुणेन कर्म्मणा श्राआशागजत्वं हीयेत, सुभटेन सङ्ग्रामे

मरणं प्राप्तो दिग्गजत्वमेव याति, यतो मूलोच्छेदाय प्रवर्तन्ते साधवः, परं तु यच्च

एषां मध्ये स्थाणुसंज्ञो न पश्यति एतदद्भुतं चित्ररं, स्थाणुना निश्चलेन भाव्यं,
कि

किं
विशिष्टानामेषां, भयचकितदृशां भयेन चकिता दृशो येषां भयचकितदृशां तेषां,

एवं हसन्तं [तुसुरारिरिं, निघ्नती पार्व्वती युष्मान् श्रअवतात्, इति रहस्यम् ॥१००।
 
}
 
॥
 
सं० व्या० - --१००. युक्तं तावदिति ॥ सुराणां रिपुम्स्सुररिपुमंर्महिषस्तं

निघ्नती पातयन्ती पार्वती पर्वतपुत्री वो युष्मान् श्रअवतात् रक्षतु, किं कुर्वन्तं,

दर्पात् दर्पेण एवमित्थं हसन्तं, कथं हसन्तमित्याह, युक्तं तावदित्यादि, दिक्षुर्दिशेत

दिगीशांस्तेषां दिगीशां दिक्प्रभूणां प्रतिदिशं दिशं प्रति अयनं गमनं युद्धभूमेः सका-

शात् युक्तं साधु, सुभटस्य रणः सुभटरण : स्व णः स्व( त त) स्मिन् युद्धान्ते ( युध्यन्ते) इति सुभट-

रणयुधः तेषां सुभटरणयुधां दारुणेन कर्मणा रौद्रेण मरणात्मककर्मणा श्राशागजत्वं
दिग्गजत्वं हीयेत,
आशागजत्वं
दिग्गजत्वं हीयेत, आशागजत्
वस्य हानि:निः स्यात्, तस्मादुक्ततं दिग्गजादीनां गमन-

मित्यादि, स्थाणुः संज्ञा यस्य स स्थाणुसंज्ञः शङ्करशूलपक्षे स्थाणुः खुंटः, यश्चैषां

दिग्गजानां भयचकितदृशां वित्रस्तलोचनानां स्थाणुसंज्ञो नश्यति पलायते तदद्भ त-
भूत-
मिति, इति स्यात् वाक्यसमाप्तीतौ, बिभ्रत्स्थाणुः स्थिरो तत्तथाविध इति श्राआश्चर्य-

मिति ॥१००॥
 

 
स्रस्ताङ्गः सन्नचेष्टो'[^१] भयहृतवचन:नः[^२] सन्नदोर्दण्ड़डशाखः

स्थाणुर्दृष्ट्वा यमाजौ'[^३] क्षणमिव सभयं स्थाणुरेवोपजातः [^४]।

तस्य ध्वंसात्सुरारेर्महिषितवपुषो लब्धमानावकाशः

पार्व्वत्या वामपादः शमयतु '[^५]दुरितं दारुणं वः सदैव[^५] ॥१०१ ॥
 

 
------------------------
[^
१.] ज० का० यं दृष्ट्वा स्रस्तचेष्टः, इत्यव्यतिप्यरिक्तः पाठः पार्श्वे टिप्पणे च प्रदर्शितः ।

[^
२.] ज० का० भयहतवचनः ।
 

[^
३.] ज० स्थाणुहर्दृष्ट्वा सुरारिरिं; स्थाणुर्दैव्त्यं तमाजीजौ, स्थाणुर्देव्दैत्यं यमाजीजौ इत्यपि पाठान्तर
-
द्वयं प्रतिद्वये प्रदर्शितम् ।
 

[^
४.] ज० क्षरणमिव सरुषं; का. क्षरणमिह सरुषं; क्षरणमिव सभयमिति टिप्पणे ।
 

[^
५.] का० भवतां ध्वान्तमन्तर्हितार्कः, इति टिप्परणे ।
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy