This page has not been fully proofread.

पद्याङ्क ९९-१०० व्याख्या ] मेदपाटेश्वर-कुम्भकर्णकृत-वृत्तिसमेतम्
 
पङ्ग नेता हरीणामसमहरियुतः स्यन्दनश्चैकचको
भानोः सामग्रयपेतः कृत इति विधिना त्यक्तवैरः पतङ्गे ।
दपा॑द्भ्राम्यन् रणक्ष्मां प्रतिभटसमराश्लेषलुब्धः सुरारि
 
र्यस्याः पादेन नीतः पितृपतिसदनं साऽवतादम्बिका वः ॥१६॥
 
[ १४
 
कुं०व० - यस्याः पादेन प्रतिभटसमराश्लेपलुब्धः, भटं भटं प्रतिभटं यः समरः
संयोगः तत्र लुब्धो गृध्नुः सन् दर्पात् रणभूमि भ्राम्यन् सुरारियमसदनं नीतः
साऽम्बिका वोऽवतु किंभूतः सुरारिः, पतङ्गे सूर्ये त्यक्तवैरः, त्यक्त वैरं येन, कुत
इति हेतोः, इतीति कि, विधिना ब्रह्मणा भानो: स्यन्दनो रथः सामग्रयपेतः
सामग्रीविकलः कृतः, हरीणां अश्वानां नेता सारथिः पङ्गुरचरणहीनः, असमहरि-
युतो विषमाश्वयुक्तश्च; अनुच, एकचक्रोऽपि अन्यसुरान्तरेषु सत्स्वपि भानुग्रहणं
सुरेषु भानोमुख्यत्वादेव ॥६६ ।
 

 
सं०व्या०-१६. पङ्ग तेति ॥ सा श्रम्बिका गौरी वो युष्मान् अवतात्
रक्षतु; कि कुर्वन् [सुरारि:] भ्राम्यन् पर्यटन् रणक्ष्मां युद्धभूमि, दर्षात् दर्पण मदात्,
किंभूतः प्रतिभटसमराश्लेषलुब्धः प्रतिभटं प्रति समराश्लेषो युद्ध-सम्बन्धी
योगः तस्मिन् लुब्धो गृध्नः, अत एव त्यक्तवैरः, यस्याः पादेन सुररिपुमंहिषः पितृ-
पतिर्यम: तस्य सदनं वेश्म नीतः प्रापितः इत्युक्तं, पतङ्गः सूर्यः तस्मिन् त्यक्तं वैरं
येनेति विग्रहः, इदानीं भानोः मृदुत्वं प्रतिपादयन्नाह, पङ्ग नेंतेत्यादि, हरीणामश्वानां
नेता सारथिः अरुणः पङ्ग : [जङ्घाविकल:], स्यन्दनो रथ: असमहरियुतः प्रसमै-
विषमैः अश्वँयु वतः, पुनरेकचक्र: एकं चक्र यस्येति विग्रहः इत्येवं विधात्रा साम-
ग्रचपेतः सामग्रचाऽसम्पूर्णतया अपेतश्च्युतः कृतः युक्तः ॥६६॥
 
P
 
युक्त' तावद्गजानां प्रतिदिशमयनं' युद्धभूमेर्दिगीशां
 
हीयेताशागजत्वं सुभटरणयुधां कर्म्मणा दारुणेन ।
'यत्वेषांस्थाणुसंज्ञो भयचकितदृशां नश्यतीत्यद्भुतं तद
दर्पादेवं हसन्तं सुररिपुमवतान्निघ्नती पार्व्वती वः ॥१००॥
 
१. ज. का. प्रतिदिशगमनमिति पार्श्वे टिप्पणे च पाठः ।
 
२. ज. का. सुभटरणकृतां ।
 
३. ज. या चैषां स्थाणुसंज्ञा भयचकितदृशां; का. यद्येष स्थाणुसंज्ञो भयचकितदृशा ।
 
T
 
CC-0. RORI. Digitized by Sri Muthulakshmi Research Academy